________________
तृतीयमध्ययनं त्रिस्थानकम् । तृतीय उद्देशकः ।
१९७
तद्रूपो व्यवसाय आनुगामिक एवेति । अथवा प्रत्यक्षः स्वयंदर्शनलक्षण:, प्रात्ययिकः
आप्तवचनप्रभवः, तृतीयस्तथैवेति ५ । ___ इहलोके भव ऐहलौकिको य इह भवे वर्तमानस्य निश्चयोऽनुष्ठानं वा स ऐहलौकिको व्यवसाय इति भाव:, यस्तु परलोके भविष्यति स पारलौकिकः, यस्त्विह परत्र च स ऐहलौकिकपारलौकिक इति ६ ।
लौकिक: सामान्यलोकाश्रयो निश्चयोऽनुष्ठानं वा, वेदाश्रितो वैदिकः, समय: साङ्ख्यादीनां सिद्धान्तः, तदाश्रितस्तु सामयिकः ७/ ___ लौकिकादयो व्यवसाया: प्रत्येकं त्रिविधाः, ते च प्रतीता एव, नवरम् अर्थधर्म-कामविषयो निर्णयो यथा
अर्थस्य मूलं निकृति: क्षमा च, धर्मस्य दानं च दया दमश्च ।
कामस्य वित्तं च वपुर्वयश्च, मोक्षस्य सर्वोपरम: क्रियासु ॥ [ ] इत्यादिरूपः, तदर्थमनुष्ठानं वा अर्थादिरेव व्यवसाय उच्यत इति ८ । ऋग्वेदाद्याहितो निर्णयो व्यापारो वा ऋग्वेदादिरेवेति ९ । ज्ञानादीनि सामयिको व्यवसाय:, तत्र ज्ञानं व्यवसाय एव, पर्यायशब्दत्वात्, दर्शनमपि श्रद्धानलक्षणं व्यवसायः, व्यवसायांशत्वातस्येति प्रतिपादितमेव, चारित्रमपि समभावलक्षणो व्यवसाय एव, बोधस्वभावस्यात्मनः परिणतिविशेषत्वात् १० । ___ अर्थस्य राजलक्ष्म्यादेोनि: उपायोऽर्थयोनि:, साम प्रियवचनादि, दण्डो वधादिरूप: परनिग्रहः, भेदो जिगीषितशत्रुपरिवर्गस्य स्वाम्यादिस्नेहापनयनादिः, क्वचित्तु दण्डपदत्यागेन प्रदानेन सह तिम्रोऽर्थयोनय: पठ्यन्ते, भवन्ति चात्र श्लोका:
परस्परोपकाराणां दर्शनं १ गुणकीर्तनम् २।। सम्बन्धस्य समाख्यान ३ मायत्या: संप्रकाशनम् ४ ॥ [ ] अस्मिन्नेवं कृते इदमावयोर्भविष्यतीत्याशाजननमायतिसंप्रकाशनमिति, वाचा पेशलया साधु तवाहमिति चार्पणम् ५ । इति सामप्रयोगज्ञैः साम पञ्चविधं स्मृतम् ॥ वधश्चैव १ परिक्लेशो २ धनस्य हरणं तथा ३ । इति दण्डविधान र्दण्डोऽपि त्रिविधः स्मृतः ॥