SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ तृतीयमध्ययनं त्रिस्थानकम् । द्वितीय उद्देशकः । १६३ बुयावइत्ता संभाष्य गौतमेन कर्षकवदिति । अवपात: सेवा सद्गुरूणाम्, ततो या सा अवपातप्रव्रज्या, तथा आख्यातेन धर्मदेशनेन आख्यातस्य वा प्रव्रजेत्यभिहितस्य गुरुभिर्या साऽऽख्यातप्रव्रज्या फल्गुरक्षितस्येवेति, संगार त्ति सङ्केतः, तस्माद् या सा सङ्गारप्रव्रज्या मेतार्यादीनामिवेति, अथवा यदि त्वं प्रव्रजसि तदा मया प्रव्रजितव्यमित्येवं या सा यथा । [सू० १६६] तओ णियंठा णोसण्णोवउत्ता पन्नत्ता, तंजहा-पुलाए, णियंठे, सिणाते १॥ ततो णियंठा सन्न-णोसण्णोवउत्ता पन्नत्ता, तंजहा-बउसे, पडिसेवणाकुसीले, कसायकुसीले २॥ [टी०] उक्तप्रव्रज्यावन्तो निर्ग्रन्था भवन्तीति निर्ग्रन्थस्वरूपं सूत्रद्वयेनाह- तओ इत्यादि, निर्गता ग्रन्थात् सबाह्याभ्यन्तरादिति निर्ग्रन्थाः संयताः, नो नैव संज्ञायाम् आहाराद्यभिलाषरूपायां पूर्वानुभूतस्मरणा-ऽनागतचिन्ताद्वारेणोपयुक्ता ये ते नोसंज्ञोपयुक्ताः, तत्र पुलाको लब्ध्युपजीवनादिना संयमासारताकारको वक्ष्यमाणलक्षणः, निर्ग्रन्थः उपशान्तमोहः क्षीणमोहो वेति, स्नातको घातिकर्ममलक्षालनावाप्तशुद्धज्ञानस्वरूपः । तथा त्रय एव संज्ञोपयुक्ता नोसंज्ञोपयुक्ताश्चेति सङ्कीर्णस्वरूपाः, तथास्वरूपत्वात्, तथा चाह– सन्न-नोसण्णोवउत्त त्ति, संज्ञा च आहारादिविषया नोसंज्ञा च तदभावलक्षणा संज्ञानोसंज्ञे, तयोरुपयुक्ता इति विग्रहः, पूर्वहस्वता प्राकृतत्वादिति, तत्र बकुशः शरीरोपकरणविभूषादिना शबलचारित्रपटः, प्रतिषेवणया मूलगुणादिविषयया कुत्सितं शीलं यस्य स तथा, एवं कषायकुशील इति । [सू० १६७] तओ सेहभूमीओ पन्नत्ताओ, तंजहा-उक्कोसा, मज्झिमा, जहन्ना। उक्कोसा छम्मासा, मज्झिमा चउमासा, जहन्ना सत्तरातिदिया । ____ ततो थेरभूमीओ पन्नत्ताओ, तंजहा-जातिथेरे, सुतथेरे, परियायथेरे। सट्ठिवासजाए समणे णिग्गंथे जातिथेरे, ठाण-समवायधरे णं समणे णिग्गंथे सुयथेरे, वीसवासपरियाए णं समणे णिग्गंथे परियायथेरे । मझिमा चउमासा, जहन्ना सतपाताया
SR No.032373
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages432
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy