SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ १५४ मज्झिममाउयं पालयंति, तंजहा-अरहंता चक्कवट्टी बलदेव-वासुदेवा । [टी०] जंबूदीवेत्यादिना वासुदेवेत्येतदन्तेन ग्रन्थेन कालधर्मानेवाह, सुगमश्चायम्, किन्तु अहाउयं पालयंति त्ति निरुपक्रमायुष्कत्वात्, मध्यमायुः पालयन्ति वृद्धत्वाभावात्। [सू० १५३] बादरतेउकाइयाणं उक्कोसेणं तिन्नि राइंदियाई ठिती पन्नत्ता १। बादरवाउकाइयाणं उक्कोसेणं तिनि वाससहस्साई ठिती पन्नत्ता २। [टी०] आयुष्काधिकारादिदं सूत्रद्वयमाह- स्पष्टम् । [सू० १५४] अह भंते ! सालीणं वीहीणं गोधूमाणं जवाणं जवजवाणं एतेसि णं धन्नाणं कोट्ठाउत्ताणं पल्लाउत्ताणं मंचाउत्ताणं मालाउत्ताणं ओलित्ताणं लित्ताणं लंछियाणं मुद्दियाणं पिहिताणं केवतितं कालं जोणी संचिट्ठति ? गोयमा! जहन्नेणं अंतोमुहत्तं, उक्कोसेणं तिण्णि संवच्छराइं, तेण परं जोणी पमिलायति, तेण परं जोणी पविद्धंसति, तेण परं जोणी विद्धंसति, तेण परं बीए अबीए भवति, तेण परं जोणीवोच्छेदे पन्नत्ते । [टी०] स्थित्यधिकारादेवेदमपरमाह- अह भंते त्ति अथ परिप्रश्नार्थः, भदन्त इति भदन्तः कल्याणस्य सुखस्य च हेतुत्वात् कल्याणः सुखश्चेति । अथवा भज्यते सेव्यते शिवार्थिभिरिति भजन्तः, अत्र बह्वर्थयुक्तः, ___ अतो भंते त्ति महावीरमामन्त्रयन्नुक्तवान् गौतमादिः। शालीनां कलमादिकानामिति विशेषः, व्रीहीणामिति सामान्यम्, यवयवा यवविशेषा एव, एतेषाम् अभिहितत्वेन प्रत्यक्षाणां कोष्ठे कुशूले आगुप्तानि प्रक्षेपणेन संरक्षितानि कोष्ठागुप्तानि, तेषाम्, एवं सर्वत्र, नवरं पल्यं वंशकटकादिकृतो धान्याधारविशेषः, मञ्चः स्थूणानामुपरि स्थापितवंशकटकादिमयो जनप्रतीतः, मालको गृहस्योपरितनभागः, अभिहितं च__ अकुड्डो होइ मंचो मालो य घरोवरिं होइ [ ] त्ति । ओलित्ताणं ति द्वारदेशे पिधानेन सह गोमयादिना अवलिप्तानाम्, लित्ताणं ति सर्वतः, लंछियाणं ति रेखादिभिः कृतलाञ्छनानाम्, मुद्दियाणं ति मृत्तिकादिमुद्रावताम्, पिहियाणं ति स्थगितानाम्, केवतियं ति कियन्तं कालं योनिर्यस्यामङ्कुर उत्पद्यते?,
SR No.032373
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages432
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy