SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ १४६ सम्प्रातरपि च प्रभातसमकालमपि च, यदैव प्रातः संवृत्तं तदैवेत्यर्थः, अनेन कार्यान्तराव्यग्रतां दर्शयति, संशब्दस्यातिशयार्थत्वाद्वा अतिप्रभाते, प्रतिशब्दार्थत्वाद्वाऽस्य प्रतिप्रभातमित्यर्थः, कश्चिदिति कुलीन एव, न तु सर्वोऽपि पुरुषो मानवो देवतिरश्चोरेवंविधव्यतिकरासम्भवात्, शतं पाकानाम् ओषधिक्काथानां पाके यस्य १, ओषधिशतेन वा सह पच्यते यत् २, शतकृत्वो वा पाको यस्य ३, शतेन वा रूपकाणां मूल्यतः पच्यते ४ यत्तच्छतपाकम्, एवं सहस्रपाकमपि, ताभ्यां तैलाभ्याम्, अन्भंगेत्ता अभ्यङ्गं कृत्वा गन्धट्टएणं ति गन्धाट्टकेन गन्धद्रव्यक्षोदेन उद्वर्त्य उद्वलनं कृत्वा त्रिभिरुदकैः गन्धोदकोष्णोदकशीतोदकैः मज्जयित्वा स्नापयित्वा, मनोज्ञं कलमौदनादि, स्थाली पिठरी तस्यां पाको यस्य तत्तथा, अन्यत्र हि पक्कमपक्वं वा न तथाविधं स्यादितीदं विशेषणमिति, शुद्धं भक्तदोषवर्जितम्, स्थालीपाकं च तच्छुद्धं च स्थालीपाकेन वा शुद्धमिति विग्रहः, अष्टादशभिर्लोकप्रतीतैर्व्यञ्जनैः शालनकैस्तक्रादिभिर्वा आकुलं सङ्कीर्णं यत्तत्तथा, भोजनं भोजयित्वा, एते चाष्टादश भेदा: सूओ १ दणो २ जवन्नं ३ तिन्नि य मंसाई ६ गोरसो ७ जूसो ८ । भक्खा ९ गुललावणिया १० मूलफला ११ हरियगं १२ डागो १३ ॥ होइ रसालू व तहा १४ पाणं १५ पाणीय १६ पाणगं चेव १७ । अट्ठारसमो सागो १८ निरुवहओ लोइओ पिंडो ॥ [ ] मांसत्रयं जलजादिसत्कं, जूषो मुद्ग-तन्दुल-जीरक-कटुभाण्डादिरसः, भक्ष्याणि खण्डखाद्यादीनि, गुललावणिका गुडपर्पटिका लोकप्रसिद्धा गुडधाना वा, मूलफलान्येक एव पदम्, हरितकं जीरकादेः, डाको वस्तुलादिभर्जिका, रसालू मज्जिका, तल्लक्षणमिदम् दो घयपला महुपलं दहिस्स अद्धाढयं मिरिय वीसा ।। दस खण्डगुलपलाई एस रसालू णिवइजोग ॥ [ ] त्ति ।। पानं सुरादि, पानीयं जलम्, पानकं द्राक्षापानकादि, शाकः तक्रसिद्ध इति । यावान् जीवो यावज्जीवं यावत्प्राणधारणं पृष्ठौ स्कन्धे अवतंस इवाऽवतंसः शेखरस्तस्य करणमवतंसिका पृष्ठ्यवतंसिका, तया पृष्ठ्यवतंसिकया परिवहेत्, पृष्ठ्यारोपितमित्यर्थः, तेनापि परिवाहकेन परिवहनेन वा तस्य अम्बापितुर्दुःप्रतिकरम्,
SR No.032373
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages432
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy