SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ ा नानानः । रश्मिभिर्वेष्टिते चाथ पुल्लिङ्गः स्याच्छिलीमुखः । शरे मधुकरे तु द्वे शिंशुमारः पुनः पुमान् ॥ ९१० तारामयाच्युते द्वे तु जलजन्त्वन्तरेऽथ सः । शिशुमारो जलकपौ द्वे समासादि पूर्ववत् ॥ १११ ॥ शिश्विदानः पुनर्द्दे स्यात् कृकलासे त्रिषु त्वयम् । कृष्णकर्मणि विज्ञेयः शिल्पाचार्या पुनः स्त्रियाम् ॥ ६१२ ॥ ज्ञेया वपनशालायां समासादीनि पूर्ववत् । शिरोरुहा तु स्त्री काकनासासंज्ञलतान्तरे ॥ ६१३ ॥ केशे तु ना सुवर्णे तु क्कीबलिङ्गं शिलोद्भवम् । पूर्ववत् स्यात् समासादि श्रीवत्साङ्कः पुनः पुमान् ॥ ६१४ ॥ वासुदेवे वृके तु द्वे समासादीनि पूर्ववत् । सैन्धवे की शीतशिवं ना तु शालेयसंज्ञके ॥ ६११ ॥ मेषजे शीतकुम्भस्तु करवीरे नृलिङ्गकः । की तु वत्प्रसवेऽत्रापि समासादीनि पूर्ववत् ॥ ११६ ॥ शीतपङ्कस्तु ना शीथौ समासादीनि पूर्वक्त् । शुक्लपचस्तु ना कुन्दे तथा कुरवकेऽपि च ।। ६१७ ॥ पूर्ववत् स्यात् समासादि शुकपत्रः पुनर्द्वयोः । एकस्मिन् निर्विषाणां स्याद् द्वादशानां फणाभृताम् ॥ ११८ ॥ अत्रापि पूर्ववत् सादि शुक्लेपुष्पः पुनः पुमान् । (कुन्दे कुरवके चापि समासाद्यत्र पूर्ववत् ) * ॥ ६१९ ॥ शुक्लापाङ्गो मयूरे द्वे समासादीनि पूर्ववत् । शुकनासस्तु ना टुण्टुवृक्षेऽगस्त्याख्यपादपे ॥ १२० ॥ १. 'शि' ङ. पाठः . २. क. पाठ: * 'अजगरः शुकपोत्रो वलाहकः' (१. १४९. लो. १७) इति तु वैजयन्ती । माध्यः शुक्लपुष्प:' (पृ. ६०. श्रो. १९१ ) इति, 'शुक्रपुष्पः कुरमकः' (पृ. ५०. श्रो. ६१) इति - बैजयन्ती ।
SR No.032333
Book TitleNanartharnav Sankshep
Original Sutra AuthorN/A
AuthorKeshav Swami, Ganpati Shastri
PublisherAmar Publication
Publication Year
Total Pages342
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy