________________
चतुरक्षरकाण्डे नानालिझाध्यायः। पूर्ववत् स्यात् समासादि वैजयन्ती पुनः स्त्रियाम् । . पताकायां च तौरीसंज्ञद्री केशवस्रजि ॥ ५८७ ॥ वैजयन्तः पुनः पुंसि प्रासादे स्याच्छचीपतेः । तस्य ध्वजे च देवे च देवदेवसुते गुहे ॥ ५८८ ॥ इमं पठन्ति द्वे तु स्याद् वैश्यायां शूद्रसम्भवे । वैदेहको मर्त्यजातिभेदे वणिजि चाप्यथ ।। ५८९ ।। स्त्रियां वैषयिकी या स्त्री गता वेश्यात्वमात्मनः । भोगाय तत्र विषयभवादौ तु त्रिषु स्मृता ॥ ५९० ॥ वैहायसं तु धानुष्कस्थितिभेदे नपुंसकम् । प्रत्यालीढाहये त्रिस्तु सम्बन्धिान विहायसः ॥ ५९१ ॥ वैखानसस्तु ना वानप्रस्थेऽप्यषिषु केचित् । सामभेदे पुनः क्ली स्याच्छतमानं तु पुन्नपोः ॥ ५९२ ॥ शतोन्मिते तण्डुलानां बीहेः कर्षद्वये परे । आढके त्वाह कश्चिद् वै शतपत्रं तु पङ्कजे ॥ ५९३ ॥ क्ली दाघाटशकुनौ पुनझै अजयः पुनः । मयूरे सारसेऽप्याह समासाद्यत्र पूर्ववत् ॥ ५९४ ॥ शतवीर्या स्त्रियां श्वेतदूर्वायां सादि पूर्ववत् । शतहदा तडिदे तडित्यप्यत्र पूर्ववत् ॥ ५९५ ॥ शतानन्दस्तु ना. विष्णौ विरिशे गोमये तथा । अत्रापि पूर्ववत् तक्यौं समासाओं सलिङ्गकौ ॥ ५९६ ॥ . शतावर्ता तु तडिति स्त्रियां विष्णौ तु पुंस्ययम् । अत्रापि पूर्ववत् सादि ज्ञेया शतमुखी स्त्रियाम् ॥ ५९७ ॥
1. 'क' क. ग. च. पाठा, २. 'ता' इ. पाठः.
* गौतमे' इति स्यात् ।