SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ चतुरक्षरकाण्डे नानालिङ्गाध्यायः । पासवारे परार्वाचोः कूलयोरसमाहृतौ । समाहारे त्वेकवचः प्राजापत्यं पुनर्नपि ॥ ३७९ ॥ द्वादशाहङ्कृते कृच्छ्रे. गर्भाधानाख्यसस्कृ (ते!तौ) | प्रजापतित्वे पत्यन्ताद् यक्प्रत्ययविधानतः ॥ ३८० ॥ केषुचित् सामभेदेषु कृतोद्वाहद्विजे तु ना । विवाहभेदेष्वष्टासु द्वितीये गौतमोदिते ॥ ३८१ ॥ प्रजापतेस्त्वपत्ये द्वे तत्सम्बन्धिनि तु त्रिषु । पत्युत्तरपदण्येन प्राणिद्यूतं तु पुन्नपोः ॥ ३८२ ॥ युद्धे पश्वहिपक्ष्याद्यैर्युद्धमात्रेऽप्यथो पुमान् । मातृषेण्यः कदम्बद्रौ त्रिषु प्रावृड्मवादिषु ॥ ३८३ ॥ जातार्थादितरत्राथ प्राचेतस इति ध्वनिः । ना वाल्मीकिमुनौ त्रिस्तु सम्बन्धे स्यात् प्रचेतसः ॥ ३८४ ॥ पितामहो विरिचे ना पितुश्च जनके तथा । पितामही तु स्त्री तत्र जनवित्र्यामथ द्वयोः ॥ १८५ ॥ प्रियापत्यः कङ्कसंज्ञे शकुनी सादि पूर्ववत् । प्रियंवदा पुष्पवल्ल्यां मालतीनानि सा स्त्रियाम् ॥ ३८६ ॥ प्रियस्य वक्तरि त्रि स्यादथ पिण्डफला स्त्रियाम् । अलाबुवल्ल्या मत्रापि समासादिकमुन्नयेत् ॥ ३८७ ॥ पिण्डारको ना पिण्डीकसंज्ञवृक्षे द्वयोः पुनः । चित्राङ्ग इति विख्यातें व्याघ्रभेदे द्वयोः पुनः ॥ ३८८ ॥ पक्षिणि स्यात् पिपतिषत् पतितुं त्विच्छति त्रिषु । पीनस्कन्धो वराहे द्वे समासादि तु पूर्ववत् ॥ ३८९ ॥ पीतपुष्पस्तु ना कासमर्दे कूश्माण्डकेऽपि च । अत्रापि पूर्ववत् सादि पीलुपर्णी पुनः स्त्रियाम् ॥ ३९० ॥ १. 'ग' छ. पाठः. २. 'न' क.. व पाठ:
SR No.032333
Book TitleNanartharnav Sankshep
Original Sutra AuthorN/A
AuthorKeshav Swami, Ganpati Shastri
PublisherAmar Publication
Publication Year
Total Pages342
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy