SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ ५०... नानाथ व संक्षेपे एकत्र त्रिषु भेदेषु द्विजपोतः पुनर्द्वयोः । शूद्रे पक्षिशिशौ चात्र समासार्थादि पूर्ववत् ॥ २७९ ॥ चण्डाले नापिते चापि दिवाकीर्त्तिर्द्वयोर्मतः । अत्रापि पूर्ववत् सादि दीर्घवृन्तस्तु पुंस्ययम् ॥ २७६ ॥ टुण्डुसंज्ञमेऽत्रापि समासार्थादि पूर्ववत् । अथो पुनर्नवा जातिभेदेऽल्पे दीर्घपयसी ॥ २७७ ॥ कदल्यां च स्त्रियां ना तु दीर्घपत्रः पण्डके । दशस्वेकत्र लिङ्गार्थसमासाश्चात्र पूर्ववत् ॥ २७८ ॥ दीर्घपादो द्वयोः समाख्ये विहगान्तरे । अत्रापि पूर्ववत् सादि दीर्घनादो द्वयोः शुनि ॥ २७९ ॥ अत्रापि पूर्ववत् सादि दीर्घनिद्रा मृतौ स्त्रियाम् । अत्रापि पूर्ववत् सादि दीर्घरोमा पुनर्द्वयोः ॥ २८० ॥ ऋक्षाख्यश्वापदेऽत्रापि समासार्थादि पूर्ववत् । दुरोदरस्तु नृनपोः पणे द्यूते नपुंसकम् ॥ २८१ ॥ ना तु धूतकरेऽथामी पुल्लिङ्गः स्याद् दुरासदः । दुष्प्रापे त्रिरथ पुंसि शिशिरतौं द्रुमार्दनः ॥ २८२ ॥ अत्रापि पूर्ववत् सादि दूरदर्शी पुनर्द्वयोः । गृमसंज्ञलगे त्रिस्तु (दूर) दर्शमनीषिणोः ॥ २८३ ॥ स्त्रियां दृढदला तालीपादपे बल्बजेषु च । अत्रापि पूर्ववत् सादि देशरूपस्तु पुन्नपोः ॥ २८४ ॥ *न्यासे पूर्ववदत्रापि देवभिन्नस्त्वयं द्वयोः । षड्विंशतौ स्याद्ः भेदेषु मण्डलाह्वयभोगिनः ॥ २८५ ॥ एकत्र भेदे विद्यात् तु समासाद्यत्र पूर्ववत् । देवदण्डस्तु नृनपोर्दण्डाकारायुधान्तरे ॥ २८६ ॥ + 'न्याये' इति स्यात् । ‘न्यायो देशरूपं समजसम्' (पृ. १०८ छो. ४८) इति वैजयन्ती ।
SR No.032333
Book TitleNanartharnav Sankshep
Original Sutra AuthorN/A
AuthorKeshav Swami, Ganpati Shastri
PublisherAmar Publication
Publication Year
Total Pages342
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy