SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ ... . . नानाणिवसंक्षेपे. समिधस्तु समूहेऽमौ युद्धगोधूमपिष्टयोः । स्वापे तु संलयश्चैकीभावे च स्वधितिः पुनः ॥ २३९ ।। बजे कुठारे स्थपतिः पुनः स्यात् सविनालके । तक्षण्यधिपतौ चापि बृहस्पतिसवेष्टिनि.॥ २४० ॥ धनपे शिल्पिभेदे चेत्यजयः सनिधिः पुनः । सन्निधाने चेन्द्रियाणां गोचरे सहुरिः पुनः ॥ २४१ ॥ अन्धकारे च युद्धे च समर्षिस्त्वपि दीधितौ । सप्तर्षयस्तु स्याचित्रशिखण्डिष्वथ कोयते ॥ २४२ ॥ स्वाध्यायस्तु भवेद् वेदे वेदस्य च जपे तथा । स्थासकस्त्वपि चर्चिक्ये बुहुदे हस्तिनामपि ॥ २४३ ॥ ज्ञेयो नक्षत्रमालाख्यभूषणे स्नातकः पुनः । गृहस्थे स्यात् कृतसमावर्तनेऽप्यथ सानसिः ॥ २.४ ४ ॥ ऋणे नखे हिरण्येऽथ स्त्रीवासो वामलूरके । स्त्रीणां वासे सुस्तरस्तु भवेच्छयनमानयोः ॥ २४५ ॥ सौप्तिकस्तु प्रपाताख्यशत्रुनिग्रहकर्मणि ।। तद्वर्णनपरे चापि भवेद् भारतपर्वणि ॥ २४६ ॥ हर्यधातु भवेत् पूर्वराजभेदे पुरन्दरे । हरिद्वरतु कलाप्यन्तेवासिनि प्रथमे स्मृतः ॥ २४७ ॥ तथा दारुहरिद्रायां वृक्षमात्रे तु कश्चन । हिमारिस्तु रवौ वहौ हृच्छ्रयस्त्वपि मन्मथे ॥ २४८ ॥ कुक्ष्यमौ हेरुकस्तु स्यान्महाकालाहये गणे । बुद्धभेदे च रमस इत्यध्यायः समाप्तवान् ॥ २४९ ॥ इति त्र्यक्षरकाण्डे पुलिभाध्यायः ।
SR No.032333
Book TitleNanartharnav Sankshep
Original Sutra AuthorN/A
AuthorKeshav Swami, Ganpati Shastri
PublisherAmar Publication
Publication Year
Total Pages342
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy