SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ यक्षरकाण्डे स्त्रीलिङ्गाध्यायः। आपूर्वस्यैव शब्दज्ञैः शंसेरिच्छार्थवाचिता । श्रद्धा स्पृहायामास्तिक्ये मन्यन्ते तु विशेषतः ॥ १०५ ॥ गर्भिण्या अपि वाञ्छायां श्वश्रूः श्वशुरयोषिति । पितृष्वसारं त्वस्याथै व्याचष्टे शाकटायनः ॥ १०६ ॥ शरत् संवत्सरे मेघात्यये शान्तिस्तु मङ्गले । चिकित्सायां शमे चाथ शिंबिर्निष्पावनामनि ॥ १०७॥ वल्लयां शम्यां तथा शीणिस्त्वङ्गे विशरणे रुजि । शुण्डा सलीलहस्तिन्यां मदिराहस्तिहस्तयोः ॥ १०८॥ श्रुतिस्तु वेदे श्रवणक्रियायां श्रोत्र एव च । गीतिधर्मविशेषे च शब्दे चाप्यभिधायके ॥१०९॥ श्रोणिः कट्यामुपस्थेऽथ संस्था स्यादाकृतौ मृतौ । व्यवस्थायां समाप्तौ च प्रणिधावपि केचन ॥ ११० ॥ संज्ञाभिधाने सङ्केते हस्तायैरर्थसूचने । सूर्यभार्यान्तरे बुद्धौ चेतनायां च तत्र च ॥ १११ ॥ उपांशु यच्च क्रियते खेष्वनीकेषु विग्रहे । सन्धावधौ प्रतिज्ञायां सन्ध्यासन्धानकर्मणोः ॥ ११२ ॥ स्वमृशब्दः समानातो भगिन्यामगुलावपि । सरिन्नद्यां तथा छन्दोभेदे द्वासप्ततिखरे ॥ ११३ ॥ संयद् युद्धेऽमिचित्यायां द्वादशस्विष्टकासु च । संसत् सदसि सत्राख्यऋतूनां त्वैपि भूमनि ॥ ११४ ॥ चतुर्विंशतिरात्रे द्वे तयोः पूर्वत्र संसदः । संविद् युद्धे प्रतिज्ञायां सङ्केताचारनामसु ॥ ११५ ॥ संभाषणे क्रियाकारे ज्ञानतोषणयोरपि । संपद् भूतौ गुणोत्कर्षे स्वाहानेय्यां च वाचि च ॥ ११९ ॥ १. 'त्र' क, ख ढं. पाठः. . २: 'चाथ भू' क. ग. घ. पाठः.
SR No.032333
Book TitleNanartharnav Sankshep
Original Sutra AuthorN/A
AuthorKeshav Swami, Ganpati Shastri
PublisherAmar Publication
Publication Year
Total Pages342
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy