SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ व्यक्षरकाण्डे स्त्रीलिङ्गाध्यायः । यात्रा तु.वर्तने गत्यामथ याच्ञानुवर्तने । प्रार्थनेऽप्यथ युक्तिः स्यादुपपत्तौ च योजने ॥ ८१ ॥ समाधावथ रक्षा स्याल्लाक्षारक्षणभस्मसु । रतिः कन्दर्पभार्यायां सुरतोत्कण्ठयोरपि ॥ ८२ ॥ रागेऽपि परमप्रीतौ रज्जुस्तु स्याद् वराटके । अष्टहस्तप्रमाणे च रास्ना तु सुवहाह्वये ।। ८३ ॥ भेषजे चापि धेनौ च राग सुह्येषु नोवृति । शोभायां चाथ राजिः स्यात् क्षेत्रेऽधो रसनस्य च ॥ ८४ ॥ पनौ च राजसपै च लेखायां च करादिषु । रीतिर्दग्धसुवर्णादिमले स्थित्यारकूटयोः ।। ८५ ।। प्रचारे स्रवणे पतौ स्वभावेऽन्ये तु पित्तले । रुजा भङ्गजरामृत्युरोगेप्वथ रुचिः श्रियाम् ।। ८६ ।। अभिष्वङ्गेऽभिलाषेऽसौ दीप्तौ स्याद् देवतान्तरे । शोभायां तिन्त्रिणीकायाः फले वृक्षान्लसंज्ञके ॥ ८७ ।। रेखा तु कृत्रिमे मार्गे हस्तपादतलादिषु । निरन्तरालपतौ च वदन्ति विदितागमाः ॥ ८८ ।। रेटिर्वह्वेश्च रटिते संयतोत्कटवाचि च । तिन्त्रिटीके स्पृहायां च तथा कान्त्यत्रियोरपि ॥ ८९ ॥ लता तु वल्ल्यां शाखायां प्रियङ्गुम्पृश्योरपि । लताबृहत्यामपि च ज्योतिप्मत्यतिमुक्तयोः ॥९० ॥ शारिबायामपि प्राह कश्चित् तन्न विरोचते । लङ्का तु तरुशाखायां रावणस्य च पत्तने ।। ९१ ॥ लक्ष्मीः श्रीभूतिशोभासु वृद्धिसंज्ञे च भेषजे । ऋद्धिसंज्ञे च कस्याञ्चिद् विष्णोर्नवलु शक्तिपु ॥ १२ ॥ २. 'तृ क. ख. पाठः. ३. 'न्तृ' क. पाठः. ४. 'ब. १. 'ष' ख. ग. पाठः. तत्सां शा' ख. पाठः,
SR No.032333
Book TitleNanartharnav Sankshep
Original Sutra AuthorN/A
AuthorKeshav Swami, Ganpati Shastri
PublisherAmar Publication
Publication Year
Total Pages342
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy