________________
ध्यक्षरकाण्डे मानालिङ्गाध्यायः ।
दुग्वे फेनेचे रमसः प्रोक्तवान्छन्दवित्तमः । शाण्डिल्यस्त्वृषिभेदे ना स्याद् बिले पावकान्तरे ॥ १८०८ ॥ शाण्डिलस्य त्वपत्ये द्वे गोत्रे स्त्री तत्र मण्डिली । शारिका तु स्त्रियां शारीसंज्ञे पक्ष्यन्तरे तथा ।। १८०९ ॥ बाद्यवादनदण्डे च " शाकटस्तु त्रि हिंसके । शालेयस्तु पुमायो मिश्रेयासंज्ञमेषजे ॥ १८१० ॥ चाणक्यमूलकेऽप्याह कम्पित् क्षेत्रे तु मेद्यवत् । शाल्युद्भवोचिते की तु चर्मपणसमाये ॥। १८११ ॥ शानं स्याल्लतामेदे शार्माष्ठा तु नियामियम् । प्रसिद्धे स्थावरे दासीषडश्रादिपदैरथ ॥ १८१२ ॥ श्यामलोऽश्वत्थवृक्षे ना काष्ये च त्रि तु तद्वति । श्यामिका मृगभेदे स्त्री श्यामला षोडशाङ्गुला ॥। १८१३ ॥ श्वेतविन्दुरिति प्रोक्तं लक्षणं तस्य सा तथा । ज्ञेया हेममले ना तु श्यामाकाहयधान्यके ॥ १८१४ ॥
श्यामकः शाकटस्तु स्यात् पुमान् पलशतात्मनः । तुलासंज्ञस्य मानस्य विंशत्यात्मकभारके || १८१५ ॥ शाकटीनापराभिख्ये यत् तु मानं व्यवस्थितम् ।
उक्ता (दू) दशगुणं तस्मात् तथा दशगुणं हि यत् ॥ १८१६ ॥
तस्माच्च यद् दशगुणं तस्मिन् क्की मेद्यवत् पुनः । शकटेः शकटस्यापि सम्बन्धिनि तथा स्मरेत् ॥ १८१७ ॥
वाहके शकटस्याथ शाकटी स्त्रीति बुध्यताम् ।
अर्थे निदानकारेण प्रयुक्ते शाकरस्तु ना ।। १८१८ ॥
१. 'तु' ग. ब. च. पाठः. २. 'रि' ग. ङ. पाठः.
२०५
* 'शारकस्तु' इति पाठः स्याद् अर्थसामञ्जस्यात्, शाकटशब्दस्योपरिष्ठाद्वस्यमाणत्वाच ।