SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ द्वयक्षरकाण्डे स्त्रीलिङ्गाध्यायः । } स्यान्निर्वहणनिष्पत्त्योः परमायां गतौ तथा । क्लेशे च तक्तवत्वोश्चेत्यर्थेषु द्वादशस्वसौ ॥ ५९॥ निशा रात्रौ हरिद्रायां निन्दा कुत्सापवादयोः । निधा निधाने पाश्यायां पाश्या पाशकदम्बकम् ॥ ६ ॥ नीवी स्यात् कवचे वस्त्रे वणिमूलधने तथा । स्त्रीकटीवसनग्रन्थौ नृभुः प्रतिकृती प्लवे ॥११॥ कश्चिद् दीर्घक्रिमावाह नेमिस्तु तिमिशहूँमे । । चक्रप्रान्ते भित्तिमूले कूपे तन्मुखंबन्धने ॥ ६२ ।। पीनाहसंज्ञ इत्येके परिच्छेदेऽपि कश्चन । वजेऽप्याह समाम्नायः प्रभा त्वर्चिषि भासि च ॥६३ ॥ सूर्यपत्नीविशेषेऽथ प्रजा सूनौ जनेऽप्यथ । पल्लिः कुटीरेऽल्पग्राम आश्रमे व्याधमन्दिरे ॥ ६४ ॥ प्राणिभेदे च मुसलीसंज्ञेऽथो पङ्क्तिरावलौ । चत्वारिंशत्स्वरायेषु छन्दाभेदेषु सा तथा ॥६५॥ एकत्वे दशसङ्ख्यायां तत्सङ्ख्येषु च वस्तुषु । दशकस्य यदा द्वित्वत्रित्वे तत्तद्वचस्तदा ॥ ६६ ॥ पक्तिस्तु गौरवे पाकेऽथाश्वायां मातरि प्रसूः । पारिः सृणिगुणे घण्ट्यां पालिश्चिहाश्रिपतिषु ॥ १७ ॥ सेतौ कर्णलतायां च प्रदेशे च सरुच्छदे । जातश्मश्रुस्त्रियां क्षेत्रे वप्रेऽथ प्राप्तिवागियम् ॥ ६८ ॥ उदयेऽधिगमे चाथ पादुं केचित् प्रचक्षते । पादुकोपानहोः स्यादित्येवं शब्दविशारदाः ॥ १९ ॥ * 'चित्रकृत् तिमिशो नेमी' (पु. ४८. श्लो, ४६) इति वैजयन्ती । 'नेमिनी तिनिशद्रुमें' इति तु मेदिनी।
SR No.032333
Book TitleNanartharnav Sankshep
Original Sutra AuthorN/A
AuthorKeshav Swami, Ganpati Shastri
PublisherAmar Publication
Publication Year
Total Pages342
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy