SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ त्र्यक्षरकाण्डे नाचलिङ्गाध्यायः । ब्राह्मण्यां तत्र माहिष्यात् त्रिस्तु वेणुविकारके । की तु स्वर्णविशेषे स्याद् वेणूतटसमुद्भवे ॥ १७६० ॥ कर्णिकारंप्रभेऽथो ना शम्बरो गिरिमेघयोः । दैत्यभेदे च विज्ञेयो यो बिभर्क्युरसा स्त्रियम् || १७६१ ॥ द्वे तु स्यान्मृगभेदेऽल्पहरिणे मत्स्य एव च । क्लीबं तु सलिले बौद्धनतभेदे बलेऽप्यथ ।। १७६२ ॥ शबरो मर्त्यजातेर्द्वे प्रभेदे यस्य सम्भवः । शूद्राद् भिल्लस्त्रियां स्त्री तु शबरी तापसस्त्रियाम् ॥। १७६३ ।। रामायणप्रसिद्धायां पुलिङ्गस्तु महेश्वरे । नपुंसकं तु सलिले शबलस्तु नृलिङ्गकः ।। १७६४ ॥ चित्रवर्णवृषे चित्रवर्णे च त्रि तु तद्वति । शनली तु स्त्रियां चित्रवर्णगव्यामथ द्वयोः ।। १७६५ ॥ फरो मत्स्यभेदे स्वात् प्रोष्ठीसंज्ञे स्त्रियां पुनः । शफरी वृक्षभेदे स्यादश्मन्तक इति श्रुते || १७६६ ॥ शलली नस्त्रियोः श्वाविलोम्नि श्वाविधि तु द्वयोः । शाण्डिलस्त्वृषिभेदे ना पार्वत्यां शण्डिली स्त्रियाम् ॥ १७६७ ॥ जलशुक्तौ तु शम्बूको द्वे शम्बूका तु सा स्त्रियाम् । गजस्य मुखमध्यस्य पार्श्वाभोदेशयोरथ ।। १७१८. ॥ ना सूक्ष्मे तण्डुलकणे तण्डुलस्य मलेऽपि च । शल्यकस्तु पुमाळेतखदिरे कदराये || १७६९ ॥ शल्यकी तु द्वयोर्ज्ञेया मृगभेदेऽथ शस्त्रकः । पुंसिस्यादृङ्कणक्षारे की त्वयस्यथ स द्वयोः ॥ १७७० ॥ शरभः सिंहशत्रौ स्यादष्टपात्संज्ञके मृगे। मृगान्तरे च रभसः करभे चोक्तवानमुम् ॥ १७७१ ॥
SR No.032333
Book TitleNanartharnav Sankshep
Original Sutra AuthorN/A
AuthorKeshav Swami, Ganpati Shastri
PublisherAmar Publication
Publication Year
Total Pages342
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy