SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ यक्षरकाण्डे स्त्रीलिङ्गाध्यायः । अपीच्छायामिरा तु स्यात् मुरायां सलिले दिवि । दैत्यान्ने न क्षितौ वाचि स्यादिला तु गवि क्षितौ ॥ १२ ॥ दिवि वाच्यार्घ्यनाड्योश्च देवताबुधभार्ययोः । इज्या तु यागे पूजायां जनन्यामपि सज्जनः ॥ १३ ॥ इष्टिोगेच्छयोरीषा रथसीरादिदण्डके । प्रमाणभेदे भगवानष्टाशीतिशतागुले ॥ १४ ॥ इहा तु वाञ्छोद्यमयोरीतिर्डिम्बप्रवासयोः । ..... उमा कीर्त्यामतस्यां च गिरिजायां श्रियामपि ॥ १५ ॥ जतिस्तु रक्षणे स्यूतौ चेत्येके तत्तु नो तथा । वय तु ब्रूम ऊशब्दकथितैकोनविंशतौ ॥ १६ ॥ अर्थेषु स्यात् तथा स्यूतौ चेत्यथो ऋद्धिरोषधौ । ऋद्धिरित्येव विख्याता या वृद्धिरिति चापरा.॥ १७ ।। तस्यामपि विभूतौ च कक्ष्या साम्यवरत्रयोः । कच्छाख्यगुह्यवस्ने च काञ्च्यां गेहप्रकोष्ठके ।। १८ ॥ पार्श्वद्यङ्गसमुद्भूतरोगभेदेऽङ्गुलावपि । कथाख्यानाह्वयग्रन्थविशेषे कथनेऽपि च ॥ १९ ॥ कन्था ग्रामे च भित्तौ च बहुचीरकृताम्बरे । कन्या तु षष्ठराशौ स्यात् प्रियङ्ग्वाख्यमहीरुहे ॥ २० ॥ कुमार्या शारिबायां च तरणीसंज्ञगुल्मके । कर्मी हाटकपुत्र्यां स्यादपि शालापलालयोः ॥ २१ ॥ कम्बूस्तु कुरुविन्दे स्याद् भूषणे च त्सरावपि । ककुबुष्णिग्विशेषे स्याद् भूभृतः शिखरे दिशि ॥ २२ ॥ वाचि चैकोन्नपञ्चाशद्रात्रे सत्रे तु भूमनि । कान्तिः शोभेच्छयोः काञ्ची मेखलापुरभेदयोः ॥ २३ ॥ २. 'कोन' क, ग. घ. पाठः. ३. 'त्र' ख. पाठः. ५ १. 'ते' क. घ. पाठः. 'च' क. घ. पाठः.
SR No.032333
Book TitleNanartharnav Sankshep
Original Sutra AuthorN/A
AuthorKeshav Swami, Ganpati Shastri
PublisherAmar Publication
Publication Year
Total Pages342
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy