SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ १३०. नानार्थार्णव संक्षेपे मूकस्तु त्रिष्ववाचि स्यात् क्लीवमाविलवारिणि । अश्वायांवेसराज्जाते चतुष्पादन्तरे द्वयोः ॥ १०१७ ॥ दैत्यभेदे तु पुल्लिङ्गो यो वराह त्वमागतः । किरातार्जुनयोर्मध्ये स्पर्धाहेतुतया तयोः ॥ १०९८ ॥ तैजसावर्तनीसंज्ञे पुनले हतां स्त्रियाम् । भाण्डे मूषाथ नृस्त्री स्याच्चर्य चारे तु स त्रिषु ॥ १०१९ ॥ प्रहेलिकान्तरे तु स्त्री मूढा स्यात् काव्यकारिणाम् । त्रि तु स्यात् तन्द्रितेऽप्यज्ञे क्रुद्धमूच्छितयोरपि ॥ १०२० ॥ क्लीबं तु मोहने ना तु पश्वन्वेषणयोर्मृगः । मृगशीर्षाख्यनक्षत्रे तद्युक्ते कालमात्र || १०२१ ॥ भकराह्वयराशौ च विदुः सांवत्सरा अमुम् । द्वे तु हस्तिविशेषे च कुरङ्गेऽप्यथ भेद्यवत् ॥ १०२२ ॥ मृतः प्रेते याचिते तु भैक्षे क्ली मरणेऽपि च । मृत्युस्तु मरणे नक्की पुमानेवान्तकेऽथ नप् ॥ १०५३ ॥ मृदु वङ्गे कोमले तु त्रि स्यादकठिनेऽपि च । मेघ्यः प्रावृषि ना त्रिस्तु मेघसाधुनि तद्भवै ॥ १०२४ ॥ मेघा स्त्री धारणाशक्तधिषणायां धनेऽपि च । ना तु यज्ञे सङ्गमे तु नृस्त्री मेधाविनि त्रिषु || १०२५ ॥ मेध्यं तु शुचिनि त्रिः क्ली बले धनसुवर्णयोः । ना तु मुञ्जेऽथ नद्यां स्त्री मेध्यार्कस्य तु श्मिषु ॥ १०२६ ॥ वृष्टिसर्जनकार्येषु शतेष्वेव चतुर्ष्वपि । द्वितीये रश्मिषु शते मेध्या मेषः पुनर्नरि ॥ १०२७ ॥ सर्वेषां प्रथमे राशावर तु द्वयोरयम् । हिमोत्सर्गार्थरश्मीनां शतेषु त्रिषु कुत्रचित् ।। १०२८ ॥ १. 'रु' ङ. पाठः. २. 'वेत्' ङ. पाठः.
SR No.032333
Book TitleNanartharnav Sankshep
Original Sutra AuthorN/A
AuthorKeshav Swami, Ganpati Shastri
PublisherAmar Publication
Publication Year
Total Pages342
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy