SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ ध्यक्षरकाण्डे नानालिशाध्यायः। शैलालिनि नटी तु स्त्री स्याद् विद्रुमलताहये । भैषज्य इति कोऽप्याह परे त्वेतदसाध्विति ॥ ९५६ ॥ तृतीयवर्गोपान्त्यत्वात् तस्येत्याहुनडी हि सा । नडः पुंस्य॒षिभेदेऽथ नृशण्डो धमनाइये ॥ ६५७ ॥ स्तम्बे व्रात्यात् क्षत्रपूर्वक्षत्रियाजे नरे द्वयोः । नडी तु विद्रुमलतासंज्ञे स्याद् भेषजे स्त्रियाम् ॥ ६५८ ॥ नदो नामरदत्तेन शब्दे ख्यातः सरस्स्वति । स्तोतर्यपि नदी तु स्त्री निमगायां नतं पुनः ॥ ११९॥ वक्रे नमस्कृते च त्रिबन्धुरेऽप्यथ तन्नपि । अगुरौ तगरे* चैव गन्धद्रव्यप्रभेदयोः ॥ ६६० ॥ नेमनेऽप्यथ नन्दा स्त्री मुहिसंज्ञमहीरुहे । तिथिषु प्रतिपत्षष्ठयोरेकादश्यां तिसृष्वपि ॥ ६६१ ॥ पार्वत्यां चाथ ना पूर्वराजभेदेषु केषुचित् । गोपालाधिपभेदेऽपि नन्दनाख्ये तु कर्मणि ॥ ६६२ ॥ नृस्त्रियोरथ नग्नः स्यात् पुंसि वैतालिकादिषु । दिगम्बरे तु त्रिः शास्त्रप्रोक्तानिरहिते तथा ॥ ६६३ ॥ नरः पुंस्यर्जुने विष्णोरवतारान्तरे नये । मनुष्यजातौ तु द्वे स्यात् स्यर्थे नारीति तत्र च ॥ ६६४ ॥ नपुंसकं तु सलिले नखरे तु नखोऽस्त्रियाम् । क्ली तु शुक्त्याख्यभैषज्ये नक्रस्तु ग्राहसंज्ञके ॥ १६५॥ द्वयोर्जलचरे प्राह शाकटायन इत्यमुम् । ग्राहादन्यत्र कुम्भीरेऽमरसिंहादयोऽभ्यधुः ॥ ६६९॥ १. 'द' क घ. ङ. पाठः, 'ग' ग. पाठः. * 'नन्यावर्ते तु तगरः' (पु. ६१. श्लो. १९५) इति वैजयन्ती।
SR No.032333
Book TitleNanartharnav Sankshep
Original Sutra AuthorN/A
AuthorKeshav Swami, Ganpati Shastri
PublisherAmar Publication
Publication Year
Total Pages342
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy