________________
(434)
रक्षःक्षुद्रग्रहादिप्रतिहतिशमनी वाहित श्वेतभास्वत् - सन्नालीका सदा प्तापरिकरमुदिता साक्षमाला भवन्तम्, शुभ्रा श्रीशान्तिदेवी जगति जनयतात् कुण्डिका भाति यस्याः; सन्नालीका सदाप्ता परिकरमुदिता सा क्षमालाभवन्तम्. ४. श्रीविमलनाथजिनेन्द्र - स्तुति (१३)
( पृथ्वी-वृत्तम् )
अपापदमलं घनं शमितमानमामो हितं, नताऽमरसभासुरं विमलमालयामोदितम् ; अपापदमलङ्घनं शमितमानमामोहितं,
न तामरसभासुरं विमलमालयामोदितम् . सदानवसुराजिता असमरा जिना भीरदाः,
क्रियासु रुचितासु ते सकलभा रतीरायताः; सदानवसुराजिता असमराजिनाभीरदाः,
क्रियासुरुचितासु ते सकलभारतीरा यताः
सदा यतिगुरोरहो नमत मानवैरञ्चितं,
मतं वरदमेनसा रहितमायताभावतः; सदायति गुरो रहो न मतमानवैरं चितं, मतं वरदमेन सारहितमायता भावतः
प्रभाजि तनुतामलं परमचापला रोहिणी, सुधावसुरभीमना मयि सभाक्षमालेहितम् ;
२
M