SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट १ वृत्तिकार हरिभद्र सूरि ने गा. ३२ की टीका में 'एतेषां च स्वरूपं प्रत्याख्यानाध्ययने न्यक्षेण वक्ष्यामः' यह संकेत किया है। तदनुसार प्रत्याख्यानाध्ययन में जो सम्यक्त्व के शंकादि प्रतिचारों से सम्बद्ध सन्दर्भ दिया गया है उसे यहां उद्धृत किया जाता है शङ्कनं शङ्का, भगवदर्हत्प्रणीतेषु पदार्थेषु धर्मास्तिकायादिष्वत्यन्तगहनेषु मतिदौबंल्यात् सम्यगनवधार्यमाणेषु संशय इत्यर्थः, किमेवं स्यात् नवमिति । संशयकरणं शङ्का, सा पुनद्विभेदा - देशशङ्का सर्वशङ्का च । देशशङ्का देशविषया, यथा किमयमात्माऽसङ्ख्येयप्रदेशात्मकः स्यादथ निष्प्रदेशो निरवयवः स्यादिति । सर्वशङ्का पुनः सकलास्तिकायजात एव किमेवं नैवं स्यादिति । मिथ्यादर्शनं च त्रिविधम् - श्रभिगृहीताऽनभिगृहीत- संशयभेदात् । तत्र संशय मिथ्यात्वमेव । यदाह – पयमक्खरं च एक्कं जो न रोएइ सुत्तनिद्दिट्ठ । सेसं रोयंतोवि हु मच्छी मुव्वो ||१|| तथा — सूत्रोक्तस्यैकस्याप्यरोचनादक्षरस्य भवति नरः । मिथ्यादृष्टिः सूत्रं हि नः प्रमाणं जिनाज्ञा च ॥ १॥ एकस्मिन्नप्यर्थे सन्दिग्धे प्रत्ययोऽर्हति हि नष्टः । मिथ्यात्वदर्शनं तत् स चादिहेतुर्भवगतीनाम् ॥ २॥ तस्मात् मुमुक्षुणा व्यपगतशङ्केन सता जिनवचनं सत्यमेव सामान्यतः प्रतिपत्तव्यं, संशयास्पदमपि सत्यं सर्वज्ञाभिहितत्वात्, तदन्यपदार्थवत्, मतिदौर्बल्यादिदोषात्तु कात्स्र्त्स्न्येन सकखपदार्थस्वभावावधारणमशक्यं छद्मस्थेन । यदाह - न हि नामानाभोगश्छद्मस्थस्येह कस्यचिन्नास्ति । ज्ञानावरणीयं हि ज्ञानावरणप्रकृति कर्म || १ | इह चोदाहरणम् - जो संकं करेइ सो विणस्सति, जहा सो पेज्जापायो, पेज्जाए मासा जे परिभज्जमाणा ते छूढा, अंधगारए लेहसाला प्रागया दो पुत्ता पियंति, एमो चितेति - एयाओ मच्छिया, संकाए तस्स वग्गुलो वाउ जाओ, मोय । बिइओ चितेइ - न मम माया मच्छिया देइ, जीश्रो । एते दोषाः । काङ्क्षणं काङ्क्षा —– सुगतादिप्रणीतदर्शनेषु ग्राहोऽभिलाष इत्यर्थः तथा चोक्तम् - कंखा अन्नन्नदंसणग्गाहो। सा पुनर्द्विभेदा - देशकाङ्क्षा सर्वकाङ्क्षा च । देशकाङ्क्षकदेशविषया, एकमेव सौगतं दर्शनं काङ्क्षति, चित्तजयोऽत्र प्रतिपादितोऽयमेव च प्रधानो मुक्तिहेतुरित्यतो घटमानकमिदं न दूरापेतमिति । सर्वकाङ्क्षा तु सर्वदर्शनान्येव काङ्क्षति, अहिंसादिप्रतिपादनपराणि सर्वाण्येव कपिल - कणभक्षाऽक्षपादादिमतानीह लोके च नात्यन्तक्लेशप्रतिपादनपराण्यतः शोभनान्येवेति प्रथवैहिकामुष्मिकफलानि काङ्क्षति, प्रतिषिद्धा चेयमर्हद्भिरतः प्रतिषिद्धानुष्ठानादेनां कुर्वतः सम्यक्त्वातिचारो भवति, तस्मादैकान्तिकमव्याबाधमपवर्गं विहायान्यत्र काङ्क्षा न कार्येति । एत्थोदाहरणम् - राया कुमारामच्चो य श्रासेणावहिया अडवि पविट्ठा, छुहापरद्धा वणफलाणि खायंति, पडिनियत्ताण राया चितेइ - लड्डु - पूयलगमादीणि सव्वाणि खामि, आगया दोवि जणा, रण्णा सूयारा भणिया - जं लोए पयरइ तं सव्वं सव्वे रंधेहत्ति, उववियं च रन्नो, सो राया पेच्छणयदिट्ठतं करेइ, कप्पडिया बलिएहि धाडिज्जइ, एवं मिस्स वगासो होहितित्ति कणकुंडगमंडगादीणिवि खइयाणि, तेहि सूलेण मत्रो, श्रमच्चेण वमन विरेयणाणि कयाणि, सो ग्राभागी भोगाण जाओ, इयरो विणट्ठो । विचिकित्सा मतिविभ्रमः, युक्त्यागमोपपन्नेऽप्यर्थे फलं प्रति सम्मोहः - किमस्य महतस्तप:क्लेशायासस्य सिकताकणकवलनादेरायत्यां मम फलसम्पद् भविष्यति किं वा नेति, उभयथेह
SR No.032155
Book TitleDhyanhatak Tatha Dhyanstava
Original Sutra AuthorN/A
AuthorHaribhadrasuri, Bhaskarnandi, Balchandra Siddhantshastri
PublisherVeer Seva Mandir
Publication Year1976
Total Pages200
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy