________________
दीधितिः५
स्वरूपासिद्धिदोषो न भवति । तथा च उभयावृत्तिपदं स्वरूपासिद्धिनिवारकमेव । व्यभिचारनिवारकं नास्ति ।। व्यभिचारानिवारकपदं च व्यर्थं भवति इति हेतुः व्यर्थविशेषणघटितोऽभूत् इति । કે ચન્દ્રશેખરીયાઃ મધ્યસ્થ: તમે કહ્યું કે જો ઉભયાવૃત્તિ શબ્દ ન મુકીએ તો ગુણવાવચ્છિન્નાભાવ પણ લઈ શકાય. અને તે વૃક્ષમાં ન હોવાથી સ્વરૂપાસિદ્ધિ દોષ આવે. તે નિવારવા "ઉભયાવૃત્તિ"પદ છે." આનો અર્થ એ કે ઉભયાવૃત્તિવિશેષણ એ સ્વરૂપાસિદ્ધિવારક છે. પણ વ્યભિચારદોષ નિવારક નથી. અને વ્યભિચાર-અનિવારક એવું હેતુમાં રહેલું વિશેષણ એ વ્યર્થ ગણાય છે. આમ તમારો હેતુ વ્યર્થવિશેષણ ઘટિત બને છે.
जागदीशी -- व्यभिचारवारकस्येवासिद्धिवारकस्यापि विशेषणस्य सार्थकतायाः पक्षधरमिश्रादिसम्मतत्वात्।
अत एव शब्दोऽनित्यः सामान्यवत्त्वे सति विशेषगुणान्तरासमानाधिकरणबहिरिन्द्रियग्राह्यत्वादिति हेतावसिद्धिवारकस्य शब्देतरार्थकस्य 'विशेषगुणान्तर'पदस्य शब्दमण्यालोके तैः सार्थकत्वं समर्थितम् ।।
___ चन्द्रशेखरीयाः अत्र पूर्वपक्षः प्राह-व्यभिचारवारकविशेषणं यथा सार्थक गण्यते । तथा स्वरूपासिद्धिनिवारक विशेषणमपि सार्थक एव गण्यते । पक्षधरमिश्रादीनामपि एतत् सम्मतं । अतः एव तत्वचिन्तामणिग्रन्थस्य शब्दखंडे, आलोकनाम्नि व्याख्याने पक्षरधरमित्रैः स्वरूपासिद्धिवारकं विशेषणं सार्थकं गणितम् । तथा हि - शब्दः अनित्या सामान्यवत्वे सति विशेषगुणान्तरासमानाधिकरणबहिरिन्द्रियग्राह्यत्वात् इति शब्देऽनित्यत्वसाधकमनुमानम् । अत्र हेतौ त्रयो विभागाः सामान्यवत्वम्-जातिमत्वम्, विशेषगुणान्तरासमानाधिकरणत्वं शब्दभिन्नविशेषगुणाधिकरणावृत्तित्वम्, बहिरिन्द्रियग्राह्यत्वं च।
शब्दः (पक्षः) जातिमान्, शब्दभिन्नविशेषगुणरूपाद्यधिकरणघटाद्यवृत्तिः, बहिरिन्द्रियग्राह्यश्चास्ति । __ अत्र "जातिमत्वं" न लिख्यते । तदा शब्दत्वजातौ तादृशावृत्तित्वं बहिरिन्द्रियग्राह्यत्वं चास्ति । तत्र च अनित्यत्वं नास्ति इति व्यभिचारो भवेत् । किन्तु जातिमत्त्वोपादाने न व्यभिचारः । शब्दत्वजातौ जातिमत्त्वाभावात् ।
अत्र यदि बहिरिन्द्रियग्राह्यत्वं न निक्षिप्यते । तदा आत्मनि जातिमत्त्वं तादृशावृत्तित्वञ्चास्ति । तत्र च अनित्यत्वाभावात् भवति व्यभिचारः । बहिरिन्द्रियग्राह्यत्वोपादाने च न व्यभिचारः । आत्मनि बहिरिन्द्रियग्राह्यत्वाभावात् ।
यदि विशेषगुणान्तरपदं शब्दभिन्नविशेषणार्थकं न निक्षिप्यते । तदा तु अधिकरणावृत्तित्वमेव शिष्टम् भवेत् ।। शब्दश्च अधिकरणे आकाशे वर्तते । अतः शब्दे हेतुसद्भावो न भवेत् । तथा च स्वरूपासिद्धिर्भवेत् ।
विशेषगुणान्तरपदोपादाने च शब्दभिन्नविशेषगुणानां रूपादीनां अधिकरणे घटादौ शब्दस्यावर्तमानत्वात् न स्वरूपासिद्धिः ।। तथा च अत्र विशेषगुणान्तरपदं स्वरूपासिद्धिवारकत्वेनैवाभिमतम् ।
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
સિદ્ધાન્તલક્ષણ ઉપર 'ચન્દ્રશેખરીયા' નામની સંસ્કૃત ગુજરાતી સરલ ટીકાઓ ૭૮
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀