SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ दीधितिः२ જાગદીશીમાં કે વિવૃત્તિમાં આવો સ્પષ્ટભેદ બતાવેલો ન હોવાથી ઘણી જ ગુંચવણ થાય એવી પાકી શક્યતા છે. दीधिति दण्ड्यादौ साध्ये परम्परासम्बद्धं दण्डत्वादिकमेव साध्यतावच्छेदकमतो नाव्याप्तिः ।।२।। जागदीशी -- अत आह - दण्ड्यादाविति। हेतुमति दण्डसामान्याभावसत्त्वात् दण्डत्वमपि तादृशावच्छेदकमेवेत्यत उक्तं-*परम्परासम्बद्धमिति --तथा च स्वाश्रयाश्रयत्वलक्षणपरम्परासम्बन्धेन दण्डत्ववतो दण्डिनः साधनवत्यभावविरहानाऽव्याप्तिः ܀ ܀܀܀ ܀ ܀܀ ܀ ܀܀ ܀ . चन्द्रशेखरीयाः यदि पूर्वपक्षानुसारेण दंडिमान् दंडिसंयोगात् स्थले अव्याप्तिः भवति एव, तर्हि तद्वारणाय तत्स्थले दंडिनि वर्तमानः दंडो न साध्यतावच्छेदकः मन्तव्यः । किन्तु स्वाश्रयाश्रयत्वसम्बन्धेन दंडिनि वर्तमानं दंडत्वं एव साध्यतावच्छेदकं परिगणनीयम् । स्वं=दंडत्वं तदाश्रयः दंडः तस्याश्रयः दंडी इति परंपरात्मकसम्बन्धेन दंडत्वं दंडिनि वर्तते । एवं च नाव्याप्तिः । प्रथम-द्वितीय-तृतीयदंड्यभावानां प्रतियोगितानां अवच्छेदकाः ते दंडाः एव, न तु * दंडत्वं । अतः तत्प्रतियोगितानवच्छेदकं दंडत्वं एव साध्यतावच्छेदकं । "भूतले प्रथमदंडी अस्ति द्वितीयदंडी नास्ति" इति वक्तुं शक्यते, किन्तु दंडत्वं स्वाश्रयाश्रयसम्बन्धेन सर्वेषु दंडिषु वर्तते । अतः भूतले स्वाश्रयाश्रयत्वसम्बन्धेन "दंडत्ववान् नास्ति" इति वक्तुं न शक्यते । तस्मात् स्वाश्रयाश्रयत्वसम्बन्धेन । दंडत्ववदभावः न लक्षणघटकः, किन्तु तत्तदंड्यभावः एव । तदनवच्छेदकं दंडत्वं सुतरां मीलति। ननु प्रथमदंडे प्रथमदंडत्वं वर्तते, तदेव प्रथमदंडत्वं परंपरासम्बन्धेन प्रथमदंडिनि एव वर्तते । न तु द्वितीयदंड्यादौ । एवं च भूतलेऽपि परंपरासम्बन्धेन द्वितीयदंडत्ववदभावः । पर्वते तृतीयदंडत्ववदभावः । काष्ठे प्रथमदंडत्ववदभावः मीलति । तत्-प्रतियोगितावच्छेदकं क्रमशो द्वितीयदंडत्वं तृतीयदंडत्वं प्रथमदंडत्वं च । तदेव साध्यतावच्छेदकं इति अव्याप्तिः इति चेत् तर्हि मूढोऽसि, येन एतावदपि न जानासि यदुत दंडत्वं शुद्धा जातिः अस्ति । प्रथमदंडत्वादीनि तु तद्जातिभिन्नाः । धर्माः । अतः तादृशप्रतियोगितावच्छेदकं प्रथमदंडत्त्वादि साध्यतावच्छेद, दंडत्वं,तु न तादृशप्रतियोगितावच्छेदकं इति न अव्याप्तिः इति भावः। * ननु तथापि यथा "भूतले घटोऽस्ति, किन्तु भूतले घटनिष्ठं घटत्वं तु नास्ति" इति प्रतीतिः भवति । तथा भूतले. दंडी अस्ति । किन्तु दंडिसंयोगाधिकरणे भूतले दंडो नास्ति । अर्थात् दंडसामान्याभावः मीलति । तत्प्रतियोगितावच्छेदकं । दंडत्वं इति पुनरपि अव्याप्तिः इति चेत् एतद्-पूर्वपक्षं प्रथमतो मनसिकृत्यैव दीधितिकृता "परंपरासंबद्धं" इति पदं ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ सिद्धान्तलक्षए 6५२ 'यन्द्रशेपरीया' नामनी संस्त शती स२ टीमो.30
SR No.032152
Book TitleSiddhant Lakshan Part 01
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2004
Total Pages252
LanguageGujarati
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy