________________
दीधितिः५
આ અનુમાન ખોટું પડે છે. અને એટલે વૃક્ષમાં વૃક્ષવાવચ્છેદન સંયોગસામાન્યાભાવની સિદ્ધિ થઈ શકતી નથી.
दीधिति यथा च घटपूर्ववर्त्तित्वस्य प्रतिदण्डं, वह्निसामानाधिकरण्यस्य वा प्रतिधूम, भिन्नत्वेऽपि; दण्डत्वं, धूमत्वं वा तत्सामान्यस्यावच्छेदकं, तथैव 'संयोगसामान्यस्यावच्छेदकं द्रव्यत्वादिक' मित्यस्यापि
सुवचत्वाच्चेति-सम्प्रदायविदः।
जागदीशी -- ननु ‘वृक्षत्वं संयोगसामान्याभावावच्छेदकं संयोगसामान्यानवच्छेदकत्वात्' इति विशिष्यैव व्याप्तिर्वाच्या प्रमेयत्व-सत्त्वादेः पक्षसमत्वात्।
चन्द्रशेखरीयाः ननु यत्र यद्धर्मानवच्छेदकत्वं तत्र तदभावावच्छेदकत्वं इति व्याप्तिस्तु प्रमेयत्वादौ व्यभिचारदोषदुष्टा भवति । अतः तादृशीं सामान्यां व्याप्तिं परित्यज्य यत्र संयोगसामान्यानवच्छेदकत्वं तत्र संयोगसामान्याभावावच्छेदक त्वं" इति विशेषत एव व्याप्तिं स्वीकुर्मः । तथा च वृक्षत्वं संयोगसामान्याभावावच्छेदकं संयोगसामान्यानवच्छेदकत्वात्। इति अनुमानेन वृक्षत्वे संयोगसामान्याभावावच्छेदकत्वं सिद्ध्यति । यद्यपि प्रागपि इदमेवानुमानं कृतं । किन्तु तत् तु सामान्यव्याप्ति अङ्गीकृत्य कृतं । इदानीं तदेवानुमानं सामान्यां व्याप्तिं परित्यज्य विशेषतः व्याप्तिं स्वीकृत्य क्रियते इति ध्येयम् ।
न च तथापि विशेषव्याप्तिरपि प्रमेयत्वादौ व्यभिचारदोषदुष्टा, प्रमेयत्वे संयोगसामान्यानवच्छेदकत्वसत्वेऽपि संयोगसामान्याभावावच्छेदकत्वस्यासत्वात् इति वाच्यम् । द्रव्यादयो सप्त पदार्थाः । सर्वेषु प्रमेयत्वं वर्तते । गुणादिषट्पदार्थेषु तु संयोगसामान्याभावोऽस्ति एव । यदि सर्वत्र द्रव्येऽपि संयोगसामान्याभावो सिध्येत्, तदा सर्वेषु प्रमेयेषु संयोगसामान्याभावस्य । सत्वात् प्रमेयत्वं संयोगसामान्याभावावच्छेदकं भवेत् । द्रव्ये च "संयोगसामान्याभावोऽस्ति न वा" इति अद्यापि न. निर्णीतम् । वयं तु अनेनानुमानेन वृक्षत्वादौ संयोगसामान्याभावावच्छेदकत्वं साधयित्वा वृक्षादौ द्रव्ये संयोगसामान्याभावं. साधयामः । अतः द्रव्ये संयोगसामान्याभावस्य अनिर्णीतत्वात् प्रमेयत्वे संयोगसामान्याभावावच्छेदकत्वस्य शङ्का एव विद्यते । अतः प्रमेयत्वमपि पक्षसममेव । साध्यशङ्कावत्त्वमेव पक्षत्वम् । प्रमेयत्वे च साध्यशङ्का वर्तते, अतः तद् अपि पक्षतुल्यमेव भवति इति न तदादाय व्यभिचारदोषः संभवति इति चेत् । હું ચન્દ્રશેખરીયાઃ પૂર્વપક્ષઃ અમે "યઃ ધર્મસ્થાનવચ્છેદકઃ સ તદભાવાવચ્છેદક" એ સામાન્ય વ્યાપ્તિને છોડી દેશું. કેમકે એ વ્યાપ્તિ પ્રમેયવાદિમાં વ્યભિચારદોષવાળી બને છે. પરંતુ "યઃ સંયોગસામાન્યાનવચ્છેદક સ સંયોગસામાવાભાવાવચ્છેદકઃ" આવી જ વ્યાપ્તિ બનાવશું. અને વૃક્ષë સંયોગ સામાન્યાભાવાવચ્છેદક
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
-
સિદ્ધાન્તલક્ષણ ઉપર 'ચન્દ્રશેખરીયા' નામની સંસ્કૃતગુજરાતી સરલ ટીકાઓ ૧૦૦