SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ ६२ शान्तिस्तवः। संपूजकानां परिपालकानां ___ यतेद्रियाणां चं तपोधनानाम् । देशस्य राष्ट्रस्य कुलस्य राज्ञां करोतु शान्ति भगवान कुलेश । नन्दन्तु साधककुलान्यणिमादिसिद्धाः शापाः पतन्तु समयद्विषि योगिनीनाम् । सा शाम्भवी स्फुरतु कापि ममाप्यवस्था यस्यां गुरोश्चरणपंकजमेव लभ्यम् ।। शिवाधवनिपर्यन्तं ब्रह्मादिस्तम्बसंयुतम् । कालाग्न्यादिशिवान्तं च जगधज्ञेन तृप्यतु । इति शान्तिश्लोकान् पठित्वा विशेषार्थ्यपात्रमामस्तकमुघृत्य तद् द्रव्यं पात्रान्तरेणादाय आदज्वलतीतिमन्त्रेण आत्मकुण्डलिन्यग्नौ दुत्वा शेष प्रियाय शिष्याय दत्वा तत्पात्रमन्यानि च चालयेदिति । ततः पात्राणि प्रक्षाल्य स्थापयेत् । मुलेन श्रीचक्रचरणोदकं शिरसि संप्रोक्ष्य प्राशयेदिति । श्रीदेव्यै पूजां समर्पयेत् । यथाअनेन मया यथाज्ञानेन यथाशक्तिसंपादितद्रव्यैः कृतेन श्रीमहात्रिपुरसुन्दरीपूजनकर्मणा भगवती श्रीमहात्रिपुरसुन्दरी प्रीयताम न मम । इति श्रीयंत्रपूजनप्रयोगः समाप्तः ।
SR No.032147
Book TitleVidyopasna
Original Sutra AuthorN/A
AuthorHimmatram Mahashankar Yagnik
PublisherYogesh Yagnik
Publication Year1987
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy