________________
२१
॥ घटिकापारायणम् ।। तत्र दक्षिणामूर्तिऋषिः । अनुष्टुप्छन्दः । घटिकासुन्दरी देवता । क्लीं बीजम् । श्री शक्तिः । ऐ कालकम् । घटिकापारायणे विनियोगः । हामित्यादिना षडङ्गः ॥
४ मूलं दिननिल्याविद्यांहंसा अं। ४ मुलं दिननित्याविद्या हंसः । एवं क्षान्तमावर्त्य पुनः अकारादिदशवर्णा आवर्तयेत् । द्वितीयदिने एं इत्या दे क्षान्तमावर्तयेत् । पुनराद्यवर्गद्वयमावर्तयेत् । तृतीयदिने चं एवं क्षान्तमावाद्यवर्गत्रयमावर्तयेत् । चतुर्थदिने तं एवं क्षान्त. मावाद्यवर्गचतुष्टयमावर्त पेत् । पञ्चमदिने यादिक्षान्तमावर्त्य अकारादिक्ष कारान्तामञ्चवर्गानावर्तयेत् । पञ्चवर्गास्तु अ ए च त य नामानो भवन्ति । ततः षष्ठादेनेऽकारादित आरभ्योक्तरीत्या घटिकापारायणं कुर्यात् ॥ (अत्र घटिकाविद्यासु विसर्गरहितपञ्चाशद्वर्णयोगो ज्ञेयः)
___ इति प्रातःकृत्यम् ॥
अथ देवद्वारगमनम् । साधकः श्रीदेवीमन्दिर समागत्य पश्चिमद्वारे तिष्ठन् द्वारपूजां कुर्यात (यथाविधि द्वाराध्य सम्पाद्य तज्जलेन द्वार सम्प्रोक्ष्य द्वारपूजां समारभेत् )। यथा दक्षशाखायां ॐ ऐं ह्रीं श्रीं भद्रकाल्यौ नमः। वामशाखायां ॐ ऐं ह्रीं श्रीं भ भैरवाय नमः । ऊर्ध्यभागे ॐ ऐं ह्रीं श्रीं गं गणेशाय नमः। इति द्वारदेवताः सम्पूज्य दिव्य दृष्टया अन्तः संविलोक्य निस्मरतां भूनसंघानां मार्ग दुत्वा, अन्तः प्रविश्य आसनविधिं कुर्यात् । तद्यथा:-कुशकम्बलाद्यासनमास्तीय मूलेन वा सौः इत्यनेन द्वादशवारमभिनन्त्र्य ॐ आत्मासनाय नमः । ॐ विमलासनाय नमः । ॐ योगापनाय नमः । ॐ वीरासनाय नमः । ॐ शरासनाय नमः । ॐ ऐं ह्रीं श्रीं आधारशक्तिकमलासनाय नमः । इति पुष्पाक्षतैः सम्पूज्यं पृथ्वीति मन्त्रोण संप्रोक्ष्योपविशेत् ।