SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ च बालरामायणप्रस्तावनायां वर्तते. अकालजलदकृतः कोऽपि ग्रन्थो नाद्याप्युपलब्धः. केवलं 'भेकैः कोटरशायिभिः' इत्यादिश्लोकः शाङ्गधरपद्धत्यादिषु लभ्यते. ध्वनिनातिगभीरेण काव्यतत्त्वनिवेशिना । आनन्दवर्धनः कस्य नासीदानन्दवर्धनः ॥ (सूक्तिमुक्तावलिः, सुभाषितहारावलिः.) काव्यालोकाद्यनेकग्रन्थकर्ता काश्मीरदेशोद्भवोऽवन्तिवर्मनृपतिसमकालीनोऽयमानन्दवर्धनाचार्यः प्रसिद्ध एव. अकालजलदश्लोकैश्चित्रमात्मकृतैरिव । जातः कादम्बरीरामो नाटके प्रवरः कविः ॥ __ (सूक्तिमुक्तावलिः.) सरखतीव कर्णाटी विजयाङ्का जयत्यसौ । या वैदर्भगिरां वासः कालिदासादनन्तरम् ॥ - (सूक्तिमुक्तावलिः, सुभाषितहारावलि..) ‘एकोऽभूनलिनात्ततश्च पुलिनाद्वल्मीकतश्चापरस्ते सर्वे कवयो भवन्ति गुरवस्तेभ्यो नमस्कुर्महे । अर्वाञ्चो यदि गद्यपद्यरचनैश्चेतश्चमत्कुर्वते तेषां मूर्ध्नि ददामि वामचरणं कर्णाटराजप्रिया ॥ एतच्छ्रोककी कदाचिदियमेव विजयाङ्का कर्णाटी स्यात्. एकोऽपि जीयते हन्त कालिदासो न केनचित् । . शृङ्गारे ललितोद्वारे कालिदासत्रयी किमु ।। (सूक्तिमुक्तावलिः, सुभाषितहारावलिः.) जानकीहरणं कर्तुं रघुवंशे स्थिते सति । कविः कुमारदासश्च रावणश्च यदि क्षमः ॥ (सूक्तिमुक्तावलिः.) काव्यमालाप्रथमगुच्छके औचित्यविचारचर्चायां १४४ पृष्ठे कुमारदासनामोपरि टिप्पणं विलोकनीयम्.
SR No.032137
Book TitleKarpur Manjari
Original Sutra AuthorN/A
AuthorRajshekhar Mahakavi
PublisherNIrnaysagar Mudranalay
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy