SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ द्वितीयं जवनिकान्तरम् विच्छाअंतो णअररमणीमंडलस्साणणाई विच्छालेंतो गअणकुहरं कंतिजोण्हाजलेण । पेच्छंतीणं हिअअणिहिदं णिदलंतो अ दप्पं दोलालीलासरलतरलो दीसए से मुहेंदू ॥३०॥ अवि अ, उच्चेहिं गोउरेहिं धुअधवलवडाडंवरिल्लावलीहिं घंटाहिं विंदुरिल्लासुरतरुणिविमाणाणुसारं लहंती । पाआरं लंघअंती कुणदि रअवसा उण्णमंती णमंती एंती जंती अ दोला जणमणहरणी बुड्डेणुब्बुडणेहिं॥३१॥ विच्छाययनगररमणीमण्डलस्याननानि प्रक्षालयन् गगनकुहरं कान्तिज्योत्स्नाजलेन । प्रेक्षमाणानां हृदयनिहितं निर्दलयंश्च दर्प दोलालीलासरलतरलो दृश्यतेऽस्या मुखेन्दुः । विच्छाययन् विगतच्छायानि कुर्वन् , म्लानीकुर्वन्नित्यर्थः । कान्तिरेव ज्योत्स्ना चन्द्रिका तस्या जलं चाकचक्यं तेन गगनं खमेव कुहरं क्षालयन्प्रकाशयन् । जलेन क्षालनमुचितमेवेति भावः। 'सरलतरल' इत्यान्दोलनवशाद्यातायातमाचरन्नित्यर्थः । अत्र रूपकच्छेकावृत्त्यनुप्रासरूपाः शब्दार्थालंकारा विभाव्याः । स्पष्टमन्यत् । अपि च,उच्चेषु गोपुरेषु धवलध्वजपटाडम्बरबहलावलीषु घण्टाभिर्विद्राणसुरतरुणिविमानानुसारं वहन्ती । प्राकारं लङ्घयन्ती करोति रयवशादुनमन्ती नमन्ती आयान्ती यान्ती च दोला जनमनोहरणं कर्षणोत्कर्षणैः ॥ धवलध्वजपटाडम्बराणां बहला आवल्यो येषु तादृशेषु गोपुरेषु पुरद्वारेषु घण्टाभिरुपलक्षितं विद्राणं वेगेन गच्छद्यत्सुरतरुणिविमानं देवाङ्गनाविमानं तदनुरूपं तत्तुल्यं प्राकारं वहन्ती बिभ्राणा । कर्षणोत्कर्षणैः रयवशालङ्घयन्ती। सरलगम 1 'पच्छालंतो' इति टीकानुगतः पाठः। 2 'धवलधअधवडाडंबरि' इति टीकादृतः पाठः। 3 "हरणं कट्टणुकट्ठणेहिं' इति टीकादृतपाठः। क० म०५
SR No.032137
Book TitleKarpur Manjari
Original Sutra AuthorN/A
AuthorRajshekhar Mahakavi
PublisherNIrnaysagar Mudranalay
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy