SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ प्रायशो वर्णनात्. एतत्सर्वमग्रे विशिष्टकविवर्णनश्लोकेषु टिप्पण्यां स्फुटीभविष्यति. बिहणकविर्यथा खदेश कश्मीरं परित्यज्य कर्णाटमहीपतेराश्रये जगाम, तद्वदयमपि खदेशं विहाय कान्यकुब्जमहीपालं शिश्रिये. · दशरूपकावलोक-सरखतीकण्ठाभरण-क्षीरखामिकृतामरकोषटीका-मुकुटकृतामरकोषटीका-श्रीमदभिनवगुप्ताचार्यकृतध्वन्यालोकलोचन-काव्यप्रकाश-साहित्यदर्पणशार्ङ्गधरपद्धति-सूक्तिमुक्तावलि-सुभाषितावलि-सुभाषितहारावल्यादिषु राजशेखरश्लोकाः, श्रीकण्ठचरितसमाप्तिसर्गे राजशेखरस्य नाम च वर्तते. एते सर्वेऽपि ग्रन्था अस्मिन्निर्णीतराजशेखरसमयादर्वाचीनाः. केवलं क्षीरस्वामिविषये मनाक्संदेहः. काश्मीरदेशमहीपालस्य जयापीडस्याध्यापकः क्षीराभिधः कश्चन शब्दविद्योपाध्याय आसीत् (राजतरङ्गिणी ४।४८८). स एवामरकोषटीकाकर्ता क्षीरस्वामीति न सम्यक्. यतः क्षीरखामिकृतामरकोषटीकायां 'श्रीभोजः' इति नाम बहुषु स्थलेषु वर्तते. भोजश्चैकादशशतकमध्यभाग आसीत्. तस्मादेकादशशतकमध्यभागादर्वाचीनः क्षीरस्वामी कथमष्टमशतकोत्तरार्धसमुद्भुतस्य जयापीडनृपतेरध्यापको भवितुमर्हति? तस्मात्क्षीरोपाध्यायात्क्षीरखामी भिन्न एव. -राजशेखरप्रणीता ग्रन्थाः - बालरामायणम् , बालभारतम् (प्रचण्डपाण्डवम् ), कर्पूरमञ्जरी, विद्धशालभञ्जिका चेति ग्रन्थचतुष्टयमेव राजशेखरकृतं प्राप्यते. तत्र बालरामायणं मूलमात्रमेव, बालभारतस्य केवलमङ्कद्वयम् , नारायणदीक्षितकृतटीकासमेता विद्धशालभञ्जिका, वासुदेव-धर्मदास-कामराज-कृष्णसूनुकृताभिष्टीकाभिः समेता कर्पूरमञ्जरी च लभ्यते. बालरामायणे भर्तृमेण्ठ-भवभूति-शंकरवर्मा-अकालजलद-तरल-सुरानन्द-कविराजानाम् कर्पूरमञ्जर्या च मृगाङ्कलेखाकथाकारापराजित-हाल-हरिचन्द्र-नन्दिचन्द्र-कोटिसानां कवीनां नामानि सन्ति. तेषु शंकरवापराजितौ राजशेखरसमकालीनौ, अकालजलद-तरल-सुरानन्द कविराजा राजशेखरस्य पूर्वपुरुषाः. तेषु कविराजो राघवपाण्डवीयकर्ता, भर्तृमेण्ठ-भवभूतिहाक-हरिचन्द्राः प्रसिद्धा एव, नन्दिचन्द्र-कोटिसौ चाप्रसिद्धौ स्तः. पूर्वोक्तग्रन्थचतुष्टयप्रस्तावनासु राजशेखरेण रघुकुलचूडामणिमहेन्द्रपालः स्खशिष्यत्वेन वर्णितः. बालभारतप्रस्तावनायां तु निर्भयनरेन्द्रसूनोमहीपालदेवस्यापि वर्णनमस्ति. निर्भयराजोऽपि राजशेखरस्य शिष्य एवासीत्. 'बालकविः कविराजो निर्भयराजस्य तथोपाध्यायः' इति कर्पूरमञ्जरीप्रस्तावनायाम्. 'विभ्रमराजस्य
SR No.032137
Book TitleKarpur Manjari
Original Sutra AuthorN/A
AuthorRajshekhar Mahakavi
PublisherNIrnaysagar Mudranalay
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy