SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ कर्पूरमञ्जरी स्थापकः-(विचिन्त्य ।) ता किं ति सक्कदं परिहरिअ पाउदबंधे पउत्तो कई? पारिपार्श्वक:-सबभासाचउरेण तेण भणिदं जेव । जधा,अत्थविसेसा ते चिअ सहा ते चेअ परिणमंता वि। उत्तिविसेसो कच्वं भासा जा होइ सा होउ ॥ ७॥ अवि अ, परुसा सक्कअबंधा पाउअबंधो वि होइ सुउमारो। पुरिसमहिलाण जेत्तिअमिहंतरं तेत्तिअमिमाणं ॥८॥ दूरमत्यर्थम् । तल्लक्षणं सुधाकरे-'यन्नीचैः केवलं पात्रै विभूतार्थसूचनम् । अङ्कयोरुभयोर्मध्ये स विज्ञेयः प्रवेशकः ॥ इति । 'तत्र विष्कम्भको भूतभाविवस्त्वंशसूचकः । अमुख्यपात्ररचितः संक्षेपैकप्रयोजनः ॥ तद्भेदा अपि तत्रैव--'द्विधा स शुद्धो मिश्रश्च मिश्रः स्यान्नीचमध्यमैः। शुद्धः केवलमध्योऽयमेकामेककृतो द्विधा॥' ता किं इति। तत्किमिति संस्कृतं परिहृत्य प्राकृतबन्धे प्रवृत्तः कविः ? पारिपार्श्वकःसर्वभाषाचतुरेण तेन भणितमेव । यथा,___ अर्थनिवेशास्त एव शब्दास्त एव परिणमन्तोऽपि । उक्तिविशेषः काव्यं भाषा या भवति सा भवतु ॥ परिणमन्तोऽपीत्यनेन प्राकृतस्य संस्कृतयोनित्वमुक्तम् । तदुक्तं प्राकृतसंजीविन्याम्-'प्राकृतस्य तु सर्वमेव संस्कृतं योनिः' इति । दण्डिना चोक्तम् (का. ११३३)-'तद्भवस्तत्समो देशीत्यनेकः प्राकृतक्रमः ।' इति । उक्तिविशेष इति 'तददोषौ शब्दार्थों' (१।४) इत्यादिना काव्यप्रकाशे नानाभेदभिन्न काव्यमुपक्षिप्तम् । भाषाविशेषानादरश्चोक्तः । कण्ठाभरणे- (१७) 'संस्कृतेनैव कोऽप्यर्थः प्राकृतेनैव चापरः ।' इत्यादिना 'सर्वाभिरपि कश्चन' (स. क. २।११) इत्यन्तेन । अवि अ इति। अपि च, परुषाः संस्कृतगुम्फाः प्राकृतगुम्फोऽपि भवति सुकुमारः। पुरुषमहिलानां यावदिहान्तरं तेषु तावत् ॥
SR No.032137
Book TitleKarpur Manjari
Original Sutra AuthorN/A
AuthorRajshekhar Mahakavi
PublisherNIrnaysagar Mudranalay
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy