SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ भासो रामिलसोमिलौ वररुचिः श्रीसाहसाङ्कः कवि- माघो भारविकालिदासतरलाः स्कन्धः सुबन्धुश्च यः । . दण्डी बाणदिवाकरा गणपतिः कान्तश्च रत्नाकरः सिद्धा यस्य सरखती भगवती के तस्य सर्वेऽप्यमी ॥ (शार्ङ्गधरपद्धतिः.) एषु कविषु साहसाङ्क-स्कन्धयोर्विषये न किमपि ज्ञायते. कान्त इति तु रत्नाकरविशेषणम्. - अत्रायं निष्कर्षः - अस्य संपूर्णलेखस्य निष्कर्षस्त्वयम्-यन्महाराष्ट्रचेदिदेशयोरन्यतरोद्भवः कान्यकुन्जमहीपालस्य महेन्द्रपालस्याश्रितो ब्राह्मणः क्षत्रियो वा राजशेखरकविः ८८४ ख्रिस्तसंवत्सरादनन्तरं ९५९ संवत्सरात्पूर्व चासीत्. राजशेखरस्य विस्तरेण वर्णनं तु पुण्यपत्तनस्थायभूषणयन्त्रालये मुद्रितायां फर्ग्युसनपाठशालाध्यक्षेण एम्. ए. पदवीमण्डितेन शिवरामसूनुवामनपण्डितेन प्रणीतायाम् 'राजशेखर' हिज् लाइफ ऍण्ड रायटिस्' इति नामाङ्कितायां पुस्तिकायां द्रष्टव्यम्, इत्यलं बहुमिः पिष्टस्य मुहुः पेषणेन. UNM
SR No.032137
Book TitleKarpur Manjari
Original Sutra AuthorN/A
AuthorRajshekhar Mahakavi
PublisherNIrnaysagar Mudranalay
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy