SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽङ्कः (ततः प्रविशति युधिष्ठिरो भीमसेनश्च, दुर्योधनः शकुनिश्च, तयोश्च ताम्बूलकर ___ वाहिन्यौ सुनन्दा सुरेखे च ।) युधिष्ठिरः विवर्तयाक्षाशकुने शारक्रीडां प्रवर्तय । धृतराष्ट्रस्य पाण्डोश्च ममाशामौलिमञ्चति ॥ १२॥ किं च, राजसूयक्रतोर्यज्वा पाण्डवोऽयं युधिष्ठिरः। आहूतो न निवर्तेय द्यूताय च रणाय च ॥ १३ ॥ शकुनिः- (दक्षिणं बाहुमुद्यम्य ।) । हंहो हस्त कृतास्त्र! दानसलिलप्रक्षालित स्वस्ति ते लोकेष्वक्षविचक्षणश्च शकुनिः स्वाङ्गेऽपि भक्तस्त्वयि । वीरे माननिधौ पराक्रमधने तद्भागिनेये मम श्रीः पार्थप्रथमादपास्य भवता कार्या हि दुर्योधने ॥ १४ ॥ दुर्योधनः-तदार्य ! पणः क्रियताम् । युधिष्ठिरःहारोऽयं केरललीविहसितशुचिभिः पतिभिौक्तिकानां शुक्रेणैकाकृतीनां कृतसकलसभागर्भचन्द्रोदयश्रीः। भ्रातृयूते पणो मे रजनिचरपतेरर्जितो राजसूये यस्यैतन्मध्यरत्नं छुरयति ककुभः कौङ्कुमीभिः प्रभाभिः ॥१५॥ भीमा-भवतस्तु कः पणः ? दुर्योधनः राजावलीक्रमायातो राजकोषः पणो मम । शकुन्तलाद्याभरणैर्यः पुनाति च पाति च ॥ १६॥ (उभौ क्रीडतः।) शकुनि:-जितं जितं महाराजदुर्योधनेन । हहो युधिष्ठिर! हारितो हारः। १आकाशस्थगृहविशेषेण; स च सर्वताराध्यः कान्तिवान्स्थूलश्च.
SR No.032137
Book TitleKarpur Manjari
Original Sutra AuthorN/A
AuthorRajshekhar Mahakavi
PublisherNIrnaysagar Mudranalay
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy