SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ . १२ बालभारतम् बन्दी गान्धाराधिपतेः पुत्रः सुबलस्य बलीयसः। मातुलः कुरुराजस्य राजते नृपतिर्गुणैः ॥४३॥ द्रौपदी-यो द्यूतकैतवविचक्षणः श्रूयते । सखी-आम् । एतस्य किल हृदयचिन्तिता निवर्तन्ते भीमसेनस पुनः रक्षिता । (?) बन्दीयात्राकृतोऽस्य चतुरङ्गचमूसमुत्थे पांसूत्करे वियति सर्पति वीतरन्ध्रे । दिङ्नागनागपतिकेशवकच्छपाना मूर्ध्व क्षणाद्भवति भूवलयस्य भारः ॥४४॥ (खगतम् ।) धारितं द्रुपदजास्वयंवरे कार्मुकं शकुनिना करेण यत् । तस्य सर्वजनहासहेतवे कंधरां समधिरुह्य तत्स्थितम् ॥ ४५ ॥ (पुनरवलोक्य विहस्य च ।) कथं विमुक्तराधावेधाभिमानस्य खयंवरयदुतीर्ण स्कन्धाद्धनुः। (सर्वे परिक्रामितकेन ।) बन्दी सिन्धुयन्त्रितयात्रोऽयं सिन्धुराजो जयद्रथः। सिन्धुपारोसमहयः सिन्धुरप्रतिमो बले ॥ ४६॥ अपि च, अस्याहवे दलितदाडिमबीजलौल्या____न्मुक्ताफलेषु करिणां रुधिरारुणेषु । व्योम्नः शुकानिपततस्तरसा निरीक्ष्य नाकस्त्रियो बहु हसन्ति सहस्ततालम् ॥४७॥ द्रौपदी-यो दुर्योधनभगिनीपतिः ।
SR No.032137
Book TitleKarpur Manjari
Original Sutra AuthorN/A
AuthorRajshekhar Mahakavi
PublisherNIrnaysagar Mudranalay
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy