SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ ६८ ] बृहद्वृत्ति - लघुन्याससंवलिते [ पाद. २ सू० २४-२८ ] बाह्र्वृच्यमिति बहून्य ऋचो यस्य, 'नञ्बहोॠ'चो माणवचरणे ७-३ - १३५ (इति) अप् समासान्तः, 'नापूप्रियादौ ३-२-५३ इति पुंवद्भावनिषेधः कथं न भवति ? सत्यं, प्रियादिसाहचर्यादप्प्रत्ययान्तमपि स्वरान्तं गृह्यते, अत्र तु व्यञ्जनान्तादप् प्रियादयो हि स्वरान्ताः तेषां धर्मः । आथर्वणमिति अथर्वाणं वेत्त्यधोते वा न्यायादेरिकण् ' इकण्यथर्वणः ' ७-४-४९ इत्यन्त्यस्वरादिलुगभावः । गोरथवातालकट लूलम् ॥ ६.२.२४ ॥ गोरथवात इत्येतेभ्यः समूहे यथासंख्यं त्रल् कटचल् ऊल इत्येते प्रत्यया भवन्ति । गवां समूहो गोत्रा, रथानां रथकट्या, लकारौ स्त्रीत्वार्थी । वातानां वातूलः ।२४। पाशादेश्व ल्यः ।। ६. २. २५ ।। पाशादिभ्यो गोरथवातशब्देभ्यश्च समूहे ल्यः प्रत्ययो भवति, इकणादेरपवादः । पाशानां समूहः पाश्या, तृण्या, खल्या, गव्या रथ्या, वात्या । पाश, तृण, खल, धूम, अङ्गार, पोटगल, पिटक, पिटाक, शकट, हल, नल, वन इति पाशादिः । भिक्षादिपाठादङ्गारहलाभ्यामपि । आङ्गारम्, हालम् । लकारः स्त्रीत्वार्थः । २५। श्वादिभ्यो ऽत्र ।। ६. २. २६ ।। श्वन्प्रकारेभ्यः समूहेऽञ् प्रत्ययो भवति । शुनां समूहः शौवम्, अह्नामाह्नम्, दण्डिनां दाण्डम् चत्रिणां चाक्रम् | अणैव सिद्धे 'नोऽपदस्य तद्धिते ' (७-४-६१) इति अन्त्यस्वरादिलोपार्थमञ्वचनम् अणपवादबाधनार्थं च, श्वादयः प्रयोगगम्याः | २६ | न्या० स० श्वादि० अन्त्यस्वरादिलोपार्थमिति अन्यथाऽणीत्यादिभिः सूत्रैरन्त्यस्वरादिलोपनिषेधः स्यात् । अणपवादबाधनार्थं चेति सूत्राभावे अहन् शब्दात् क्रतोरन्यत्र समूहे ऽचित्तत्वादणोपवाद इॠण् स्यात् । खलादिभ्यो लिन् ॥ ६. २. २७ ॥ खलप्रकारेभ्यः समूहे लिन् प्रत्ययो भवति, लकारः स्त्रीत्वार्थः । खलानां समूहः खलिनी । पाशादित्वाल्लयोऽपि । खल्या, ऊकानाम् ऊकिनी, कुटुम्बानां कुटुम्बिनी । खलादयः प्रयोगगम्याः | २७| ग्रामजनबन्धुगजसहायात्तल् ॥ ६. २. २८ ॥ एभ्यः समूहे तल् भवति । ग्रामाणां समूहः ग्रामता, जनता, बन्धुता, गजता, सहायता । लकारः स्त्रीत्वार्थः । २८
SR No.032130
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 03
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy