SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ पाद १. सू. १२५ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोऽध्यायः [४९ वर्तत इति अञोऽपि लुप । द्रः प्रत्ययस्य बहुषु वर्तमानस्य इति तु विज्ञायमाने न स्यात् । अस्त्रियामिति किम् ? पञ्चालस्यापत्यानि स्त्रियः पाञ्चाल्यः । लौहध्वज्याः स्त्रियः, पञ्चभिः पाञ्चालीभिः क्रीतः पञ्चपञ्चाल इत्यत्र तु इकणो लुपः पित्त्वात् पुवद्भावेन स्त्रीत्व निवृत्तेल प् भवत्येव ।१२४। न्या० स० बहुध्वस्त्रियाम० बहिरङ्गा लुप् बाधते इति अत्र प्रकृतेः पूर्वं पूर्वमित्यन्तरङ्गत्वं बहिरङ्गत्वं च । ननु द्वे अपि लुपौ तत्कथं बाध्यबाधकभावः ? उच्यते, विधीनिति सामान्यभणनात अन्तरङ्गा लुप् बाध्यते । इति तु विज्ञायमाने न स्यादिति यदाप्येवं विवक्ष्यते तदापि न भवति, पञ्चालस्यापत्यानि पश्चालाः । अण् तेषामपत्यं युवा 'अत इञ्' ६-१-३१ अत्र प्रथमस्यायो न लुप् प्राजितीय' ६-१-१३५ इति निषेधात् । 'बिदार्ष' ६-१-१४० इति इत्रि लुप्तेऽपि न भवति बहुत्वाभावात् , ततः पाञ्चाल इत्येव भवति । यस्कादेगोत्र ॥ ६. १. १२५॥ यस्कादिभ्यो यः प्रत्ययो विहितस्तदन्तस्य बहुत्वविशिष्ट गोत्रेऽर्थे वर्तमानस्य यस्कादेर्यः स प्रत्ययस्तस्यास्त्रियां विषये लुप् भवति । यस्कस्यापत्यं यास्कः, यास्को, यस्काः, लाह्यः, लाह्यो, लह्याः शिवाद्यण् । यस्कादेरिति किम् ? उपगोरपत्यमोपगवः, औपगवी, औपगवाः, यास्कायनयः, लाह्यायनयः। गोत्र इति किम् ? यास्काश्छात्राः, यस्कस्यापत्यानि यस्काः, तत्प्रतिकृतयो यास्का इत्यत्र गोत्रे उत्पन्नस्यापि प्रत्ययस्य नेदानीं तदन्तं प्रतिकृतिषु वर्तमान गोत्र इति न भवति । अस्त्रियामित्येव ? यास्क्यः स्त्रियः। यस्क, लय, द्रा, अयस्थूण, तृणकर्ण, भलन्दन । एभ्यः शिवाघणो लप, खरप । अस्मान्नडाद्यायनणः। भडिल, भण्डिल, भडित, भण्डित, एभ्योऽश्वाचायनत्रः । सदामत, कम्बलहार, पर्णाढक, कर्णाढक, पिण्डीजङ्घ, वकसक्थ, रक्षोमुख, जङ्घारथः उत्काश, कदुमन्थ, कटुकमन्थ, विषपुट, निकष, (किषकः), कषक: उपरिमेखल, कडम, कृश, पटाक, क्रोष्ट्रपाद, क्रोष्टुमाय, शीर्षमाय, स्थगल, पदक, वर्मक एभ्योऽत इञः । पुष्करसद्, अस्माद्वाह्वादीनः। विधि, कृति, अजबस्ति, मित्रयु, एभ्यो, शृष्ठ्याधेयञः इति यस्कादिः ।१२५॥ न्या० स० यस्कादेर्गोत्रे-यास्का इति अत्र यदि गोत्रे उत्पन्नस्य प्रत्ययस्य लुबिति व्याख्यायेत तदात्रापि प्राप्नोति गोत्रे प्रत्ययस्योत्पन्नत्वात् न त्वेवं व्याख्यायतेऽपि तु प्रत्ययान्तस्य गोत्रे बहा वर्तमानस्येति, ततश्च नेह प्रत्ययान्तं गोत्रबहुत्वे कि तहि प्रकृतिबहुत्व इति, अथ यस्कादिगणो विव्रियते । यस्यति ‘निष्क' २६ ( उणादि) इति यस्कः । लहिः सौत्रः। लह्यति यति 'शिक्या ३६४ ( उणादि ) इपि लह्यः । द्रुह्यः। अयसः स्थूणा या, तृणवत् कौँ यस्य, भलिण अच भलमन्दति नन्द्यादित्वादनः, 'भण्डेने लुक् च' ४८२ (उणादि) इति भडिलः, भण्डिला,
SR No.032130
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 03
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy