SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ 48 ] श्रीसिद्धहेमचन्द्रशब्दानुशासने अंशितत्पुरुषममासः परलिङ्गो भवति, अर्घ पिपल्या अर्धपिप्पली, अयं 'समेंऽशेऽर्ध नवा' [३. १. ५४] इति समासः, अ? जरत्या: अर्धजरतोयं 'जरत्यादिभिः' [३. १. ५५] इति समासः, द्वितीयं भिक्षायाः द्वितीयभिक्षा 'द्वित्रि' [३. १. ५६] इति समास:, पूर्वाह्नपूर्वरात्रादीनां 'अह्न' [७. ३. ११६] इति 'रात्र' इति च पुस्त्वं, ङर्थश्चतुर्थ्यर्थोऽर्थशब्दो यत्र प्रस्तावात् तत्पुरुषसमासे स वाच्यस्य यल्लिङ्ग तत्समालिङ्गो भवति, ब्राह्मणायायं ब्राह्मरणार्थः सूपः, एवं ब्राह्मणार्था पेया, ब्राह्मणार्थं पयः ।। ङ इति किम् ? धान्येनार्थः धान्यार्थः, पुस्त्वापवादो योगः, अपत्य मिति अपत्यादयः शब्दा नियता नियते अजहद्वतिनी व्यस्ते समस्ते वा लिङ्गवचने येषां ते तथा, अपत्यं दुहिता पुत्रश्च, इति शब्दस्याद्यर्थत्त्वादेव तोक रक्षः, सारथिः, सादी, निषादी अतिथिः स्त्री पुमान् कुलं वा, स्याद्वादः प्रमारणं अनेकान्तात्मकं वस्तु संविदां गोचर , दण्ड उपसर्जनं, विद्या गुणः गौः प्रकाण्डं, कमारी तल्लजः अश्वो मतल्लिका स्वाथिककप्रत्ययान्तास्तु क्वचिद्वाच्यलिङ्गा अपि भवन्ति । वीरौ रक्षः प्रकाण्डको, कुमारी तल्लजका इत्यादि, बाहुलकात् क्वचिदाश्रयलिङ्गा अपि, प्रमाणी ब्राह्मणी, गुणो विशेषणं तस्मात् प्रवृत्तिनिमित्ताद् विशेष्ये वृत्तिर्यस्य स गुणवृत्तिः शब्दः तस्याश्रयाद् विशेष्यवशाल्लिङ्गवचने स्यातां, परत्वात् सकलशास्त्रापवादः, अस्त्र्या रोपेति आरोपोऽर्थान्तरे निवेशनं, अस्त्रियामारोपोऽस्त्र्यारोपः तस्याभावे सति, गुणवृत्तिश्च गुणद्रव्यक्रियोपाधिभेदात् त्रिधा। गुणोपाधिः शुक्लः, पटः, शुक्ला शाटी शुक्लं वस्त्रं, मूों ना मूर्खा स्त्री मूर्ख कुलं इत्यादि । द्रव्योपाधि:-दण्डी ना, दण्डिनो स्त्री दण्डि कुलं इत्यादि। क्रियोपाधिः-पाचको ना पाचिका स्त्री, पाचकं कुलं इत्यादि, सर्वादि केवलस्तदन्तश्च गुणवृत्तिः एवं संख्यापि, सर्वः सूपः, सर्वा यवागूः, सर्वमन्नम्, एवं स, सा, तत्, अन्यः, अन्या, अन्यत्, द्वाभ्यामन्य: द्वयन्यः, द्वयन्याः द्वयन्यत् एक: पटः, एका पटी, एकं वस्त्रं, एवं द्वौ, द्व, द्वे, त्रयः तिस्रः त्रीणि, बहुव्रीहिरदिग्वृत्तिगुणवृत्तिः । चित्रा गावोऽस्य चित्रगुर्ना, चित्रगुः स्त्री, चित्रगु कुलं इत्यादि. दिग्वाची तु दिगनामत्वात् स्त्रीलिङ्गः, दक्षिणस्याः पूर्वस्याश्च यदन्तरालं दिक् सा दक्षिणपूर्वा दिक्, एवं दक्षिणपश्चिमा। पूर्वपदप्रधानस्तत्पुरुषस्तद्धितार्थद्विगुश्च गुणवृत्तिः, अतिक्रान्तः खट्वां अतिखट्वः, अतिखट्वा, अतिखट्वं एवं अवक्रुष्ट: कोकिलया अवकोकिलः, अवकोकिला, अवकोकिलम् । परिग्लानोऽध्ययनाय पर्यध्ययनः ३, अलं जीविकाय अलंजीविकः ३, निष्क्रान्तः कौशाम्ब्या निष्कौशाम्बिः, प्राप्तो जीविकां प्राप्तजीविकः ३ इत्यादयः । शतात् परे पर:शता: ३, एवं परःसहस्रा: ३, परोलक्षा: ३। उत्तरपदप्रधानस्य तु यथास्वं लिङ्ग, तद्धितार्थद्विगुः पञ्चसु कपालेषु संस्कृतः पञ्चकपालः, पञ्चकपाला, पञ्चकपालं, रक्ताद्यर्थेऽणाद्यन्ताश्च गुणवृत्तयः । हरिद्रया रक्तः हारिद्रः, हारिद्री, हारिद्र । एवं सर्वतद्धितेषु यथायोगमपवादवर्जमुदाहायँ। आरोपाभावे इति किन् ?
SR No.032130
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 03
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy