SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ 2 लिङ्गानुशासनम् [ 45 महोदया महोदयं कन्यकुब्जाख्यो देशः, कांस्यी, कांस्यं सौराष्ट्रका अर्थ प्राधान्यात् सौराष्ट्रका सौराष्ट्र कमपि ॥ ४ ॥ मृगव्यचव्ये च वणिज्यवीर्यनासोरगात्रापर मन्दिराणि । तमिस्त्रशस्त्रे नगरं मसूरत्वक्षीरकादम्बरकाहलानि ।। ५ ।। मृगव्या मृगव्यं पापद्ध:, चव्या चव्यं नागवल्लिमूलं वचायां तु स्त्रीत्वमेव । वणिज्या वरिणज्यं वरिणक्कर्म, वीर्या वीर्यं प्रतिशयशक्तिः । अथ रान्ता: दश- नासीरा नासीरमग्रयानं गात्रा गात्रं गजस्य पूर्वजङघादिभागः. अपरा अपरं गजस्य पाश्चात्यजङघा, मन्दिरा मन्दिरं गृहं, समुद्रे तु पुंस्त्वमेव नगरे तु क्लीबं, तमिस्र तमः, तमिस्रा निबिडं तमः सामान्यविशेषयोरभेदविवक्षया ऐकार्थ्यम्. कोपे तु क्लीबं, कृष्णपक्षनिशायां तु स्त्री । शस्त्रमायुधविशेष:, नगरी नगर पुरी मसूरी मसूरं चर्मासन, त्वक्क्षीरी त्वक्क्षीरं वंशलोचना, कादम्बरी कादम्बरं मद्यविशेषः, सामान्यविशेषयोरभेदविवक्षायामित्थं निर्देश, यदाह - ' कादंबरं मद्यभेदे दधिसारे सीधुनि स्त्रियाम्' । अथ लान्ता प्रष्ट । काहला काहलं शुषिरो वाद्यभेदः ।। ५ ॥ स्थालीकदल्यौ स्थलजालपित्तला, गोलायुगल्यौ बडिशं च छर्दि च । अलाबु जम्बूडुरुषः सरः सदो रोदोऽचिषी दाम गुरणे त्वयट् तयट् ॥ ६॥ ।। इति स्त्रीक्लीबलिङ्गाः ॥ 2 स्थाली स्थाल भाजन विशेष कदली कदलं शाकादेर्नवनालं स्थली अकृत्रिमा चेत् कृत्रिमा तु स्थला, स्थलं उन्नतो भूभाग:, जाली जालं आनायः समूहः गवाक्षश्च, पित्तला पित्तलमारकूटम् । गोला गोलं पत्राञ्जने कुनद्या च, गोदावर्यां च मण्डले । सखीमणिकयोर्गोला, गोलं लक्ष्यानुसारतः ।। १ ।। युगली युगलं युगम् । अथ शान्तः बडिशा बडिशं मत्स्यबन्धनं, बडिशीत्यपि क्वचित् । अथेदन्त' इयं छदिः, इदं छदिः वान्तिः, इयमलाबूः इदमलाबु तुम्बोलता, इयं जम्बूः इदं जम्बु जम्बूवृक्षफलं, अनयोः क्लीबत्वे ह्रस्वता, उडुः उडु नक्षत्रं, उषाः उषः सन्ध्या, प्रभाते पुंनपुंसकं, सरः सरसी तडाग, सदः सदा सभा, रोदसी द्यावापृथिव्यौ, अर्चि: अग्निशिखा रश्मिश्च दाम बन्धनं- गुणवाचि प्रयतयडन्तं नाम स्त्रीनपुंसकं, द्वयी द्वयं, त्रयी त्रयं चतुष्टयी चतुष्टयं, गुरिणनि त्वाश्रयलिङ्गतैव । द्वये पदार्थाः द्वयी गतिः, द्वयं वस्तु त्रयारिण जर्गान्त चतुष्टये कषायाः, चतुष्टयी शब्दानां प्रवृत्तिः इत्यादि ।। ६ ।। ।। इति स्त्रीक्लीबलिङ्गम् ।।
SR No.032130
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 03
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy