SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ लिङ्गानुशासनम् [ 43 कम्बुः सक्तुर्वगुरुर्वास्तु पलाण्डु हिङ गुः शिग्रुर्दोस्तितउः सीध्वथ भूम । वेम प्रेम ब्रह्म गरुल्लीम विहायः . कर्माष्ठीवत् पक्षमधनुर्नाम महिम्नी ॥ ३६ ॥ ॥ इति पुंनपुंसकलिङ्गाः ।। कम्बुः शंख:, वलये शम्बूके, गजे कचूरे च पुसि, सक्तुः यवादिविकृतिः, केचिदेनं बहवचनान्तं पठन्ति, दारु काष्ठं. दार्वन्तत्वादेव महादादियोऽपि प्रक्लीवाः, सर्वेऽप्येते एकार्थाः, अगुरु गन्धद्रव्यविशेषः, वास्तु: गृहभूमिः पलाण्डुः कन्दविशेषः, हिङ गुः रामठं, शिग्यः शोभाजनम् । अथोदन्तप्रक्रम एव छन्दोऽनुसंधानात् सन्तः, दो बाहुः, तितउः शूर्प, सीधुः मैरेयम् । अथ व्यञ्जनान्ताः १३ भूमा वहुत्वं, वेमा तन्तुवायशलाका, प्रेमा स्नेहः नर्म च, ब्रह्म तप वेदः ज्ञानं आत्मा प्रजापतिः, गरुत् स्वर्ण पिच्छं च लोभ च तनूरुहं, विहायाः शकुनिनभश्च, कर्म क्रिया व्याप्यं च, अष्ठीवान् जानुः, पक्ष्म अक्षिरोम तूलं च. धनुः चापं, नाम संज्ञा, महिमा महत्त्वम् ।। ३६ ।। ।। इति पुनपुसकलिङ गं समाप्तम् ।। स्त्रीक्लीबयोनखं शुक्तौ विश्वं मधुकमौषधे । माने लक्षं मधौ कल्यं, कोडोऽङ्क तिन्दुकं फले ॥ १॥ शुक्ती गन्धद्रव्यविशेषे नखशब्द: स्त्रीक्लीबलिङ्गः, नखी, नखं विश्वमधुकनाम्नी प्रोषधवाचिनी स्त्रीक्लीबे। विश्वा विश्वं शुण्ठी, मधुका मधुकं मधुयष्टिः, माने संख्यायां लक्षं स्त्रीक्लीबं, लक्षा लक्षं सहस्रशतं, मधौ मद्ये वाच्ये कल्यशब्द: स्त्रीक्लीबः, कल्या कल्यं, अङ्क उरसि वाच्ये क्रोडशब्दः स्त्रीक्लीबः क्रोडा. कोडम फलविशेषे तिन्दकं स्त्रीक्लीबं. तिन्दुकी, तिन्दुकम् ।। १ ।। तरलं यवाग्वां पुष्पे पाटलं पटलं चये। वसन्ततिलक वृत्ते कपालं भिक्षभाजने ॥ २ ॥ यवाग्वां वाच्यायां तरलं, तरला, तरलं । हारे तन्मध्यमणौ चाभरणनामत्वात् पुस्त्वम् । पुष्पविशेषे वाच्ये पाटलं, पाटली पाटलं, चये समूहे वाच्ये पटलं, पटली पटलम्, पिटकतिलकपरिच्छेदेषु लान्तत्वान्नपुसकत्वं, वृत्तविशेषे वसन्ततिलक, वसन्ततिलका, वसन्ततिलकं, भिक्षुभाजने वाच्ये कपालं स्त्रोक्लोबम्, कपाली, कपालम् ।। २ ।।
SR No.032130
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 03
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy