SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ 40 ] श्री मिद्धहेमचन्द्र शब्दानुशासने नेत्रं वक्त्र पवित्र पत्रसमरो शीरान्धकारा वरः, केदारप्रवरौ कुलीरशिशिरावाडम्बरो गह्वरः । क्षीरं कोटरचक्रचुऋतिमिराङ गारास्तुषारः शर भ्राष्ट्रपह्वरराष्ट्र तक्रजठरार्द्राः कुञ्जरः पञ्जरः ।। २६ ।। नेत्रो नयनं परिधानविशेषश्च वक्त्रो मुखं, पवित्र पावनं, गुणवृत्तेस्त्वाश्रयलिङ्गता, पत्रं पर्णं वाहनं च, समरः रणं, उशीरः वीरणीमूलं, अन्धकारः तमः प्रर्थप्राधान्यान्नीलपङ्कदिनकेसरावपि वरः श्रेष्ठः देवतादेश्व - मनागिष्टे त्वव्ययं, अन्ये तु क्लीबम् । केदारः वप्रः, प्रवरो गोत्रविशेष: हिमं च कुलीरः कर्कटकः शिशिरः ऋतुविशेषः ग्राडम्बरं करिगर्जितं पटह उद्धतवेषादिश्व, गह्वरं बिलं निकुञ्जः दम्भश्र, क्षीरः दुग्धं. जले तु नपुंसकत्वं, कोटरं छिद्रं निष्कुहश्व, चक्रः प्रायुधम् : रथाङ्ग, संघातः राष्ट्र कटकं च, - स्वल्पह्रस्वयोः कपि चक्रिका दुरुद्योगः घुणावर्तव चुक्रं अम्लो रसः अम्लव्यञ्जनं च, तिमिरः तमः, अङ्गारः श्रग्निदग्धकाष्ठशकलं तुषारः हिमं शर: बारणः दधिसारच, भ्राष्ट्रं अम्बरीषः, उपह्वरः उपसरः रहः समीपं च, राष्ट्रः जनपदः उपद्रवश्व, तक्रं उदश्वित्, जठरं उदरं, आर्द्रः शृङ्गवेरं कुञ्जरः गजः, पञ्जरं वीतसम् ।। २६ ।। कर्पूरनूपुरकुटोरविहारवारकान्तारतोमरदुरोदर वासराणि । कासारकेसरकरीरशरीरञ्जीरमञ्जीर शेख रयुगंधरवज्रवप्राः ।। २७ ।। कर्पूरं घनसारः, नूपुरो गञ्जीर, कुटीरं ह्रस्वा कुटी विहारं भिक्षुस्थानं यतिचर्या च वारः परिपाटिः अवसरः समूहश्च कान्तारो महारण्यं, तामरं शस्त्रविशेषः, दुरोदरं पणः, वासरं दिनं कासारः पल्वलं, केसरः किञ्जल्कः सटा च, करीरं वंशाद्यङ, कुरः घटश्च, शरीरः कायः, जीरं प्रजाजीकः जीरकोऽपि च, मञ्जीरः नूपुरं, शेखरं शिरोभूषणं, युगंधरं कूबरं, वज्र अशनिः रत्नं च वप्रं क्षेत्रं रोधश्च ।। २७ ।। आलवालपलभालपलालाः, पल्वलः खलचषालविशालाः । शूलमूलमुकुलास्तलतैलौ तुलकुड्मलतमालकपालाः ।। २८ ।। आलवालं प्रवालं, पलं मांसं मानविशेषश्व, भालं ललाटं पलालं धान्यादे: शुकना, पल्वलः कासारः, खलः पिण्याक: दुर्जनश्च दुर्जने प्राश्रयलिङ्गोऽप्ययमित्येके, चषालः यज्ञपात्रं, विशालः विस्तीर्णता गुणवृत्तेस्त्वाश्रयलिङ्गता, शूलं श्रायुधं मूलं प्रादिः प्रतिष्ठा च मुकुलं कुड्मलः तलं अत्रः स्वभावश्व, पृष्ठे तु लान्तत्वान्नपुंसकः, तैलं तिलादिस्नेहः, तूलं पित्र, कुड्मलो मुकुलः, तमालो वृक्षविशेषः, कपालं 'शिरोऽस्थि घटादिशकले व्रजे भिक्षाभाजने च स्त्रीक्लीबः ।। २८ ।
SR No.032130
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 03
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy