SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ 30 ] श्रीसिद्धहेमचन्द्रशब्दानुशासने स्त्री, प्रौपगवं कुलमित्यादि। लाजशब्द: वस्त्रसंबन्धिदशावाची, च दशशब्दः स्त्रीपुसौ तौ च बहुत्व एव प्रयोक्तव्यौ, अघप्रत्ययभेदेनेहाद्या : शब्दा: स्त्रीपुसलिङ्गाः, ईहः ईहा, वाञ्छा उद्यमश्चेष्टा च, ऊहः ऊहा तर्कः, स्पर्धः स्पर्धाः संघर्षः इत्यादि ।। ५ ।। शुण्डिकचमप्रसेवकौ, सल्लकमल्लकवृश्चिका अपि । शल्यकघुटिकौ पिपीलि-कश्चुलुकहुडुक्कतुरुष्कतिन्दुकाः॥ ६ ॥ अथ कान्ता: १२ शुण्डिकः शुण्डिका सुरापणः, चर्मप्रसेवकः चर्मप्रसेवका दृतिः, सल्लकः, सल्लकी, गजप्रियतरु: निर्यासविशेषश्चेत्यरुणः, मल्लक: मल्लिका दीपवाधारः, वृश्चिक: वृश्चिकी सविष: कोट:, शल्यक: शल्यकी श्वावित्, धुटिक: घुटिका गुल्फः, अर्थप्राधान्यात् धुण्टिक: बुण्टिका, घुट: घुटी, गुल्फः गुल्फा इत्यादि । पिपीलकः पिपीलिका वल्मीककृमि:, चलक: चलका ग्रास्यपुरणं वारि, हडक्कः हडक्कातोद्यं, स्यपूरणं वारि, हुडुक्कः हुडुक्कातोद्यं, तुरुष्कः तुरुष्का सिहकः, तिन्दुकः तिन्दुकी वृक्षविशेषः ।। ६ ।। शृङगोऽथ लञ्चभुजशाटसटाः सृपाटः, कीटः किटस्फटघटा वरटः किलाटः । चोटश्चपेटफटशुण्डगुडाः सशाणाः, स्युरिपम्फलगर्तरथाजमोदाः ॥ ७ ॥ शुङ गः शुङ गा कन्दलः । अथ चान्तः लञ्चः लञ्चा उपचारः, भुजः भुजा बाहुः, शाटः शाटी परिधानं, सट: सटा सिंहस्कन्धकेशाः, सृपाटः सृपाटी परिमारणविशेषः, किटः किटो वंशादिपुत्तलिका, स्फट: स्फटा फरणः, घट: घटी कलशः, वरट: वरटा द्रजन्तुविशेषः, किलाट: किलाटो क्षीरविकारः, किलाटिकेत्यमरटीका, चोटः चोटी शाटिका, चपेटः चपेटा विस्तृताङ गुलिपाणितलं, फट: फटा फणः, शुण्डः शुण्डा सुरा, गुडः गुडा हस्तिसन्नाहः, शारणः शाणा निकषः, वारिपः वारिपर्णी फङ गानामशाकं, फणः फणा फटा, गर्तः गर्ता श्वभ्र. रथः रथी स्यन्दनः, अजमोदः, अजमोदा ब्रह्मकुशा ।। ७ ।। विधकूपकलम्बजित्यवर्धाः, सहचर-मुद्गरनालिकेरहाराः । बहुकरकृसरौ कुठारशारौ, वल्लरशफरमसूरकोलरालाः ॥८॥ विधः विधा प्रकारः, कूपः कूपी अन्धुः, कलम्बः कलम्बी शाकविशेषः, जित्यः जित्या हलिः । अथ रान्ता:-व: वो चर्मरज्जुः, सहचरः सहचरी लता समूहविशेषश्च, मुद्गर मुद्गरी लोष्ठादिभेदनोपकरण, नालिकेरः नालिकेरी तरुविशेषः फले तु तन्नामत्वात् क्लीबत्वं, हारः हारा मुक्तादाम, बहुकरः बहुकरी समाजिनी, कृसरः कृसरी तिलौदनः, कुठारः कुठारी पशु:, शार: शारी पायानयीनः, वराटश्चेति हर्षः। वल्लर: वल्लरी मञ्जरो अर्थप्राधान्यान्मञ्जरः मञ्जरीत्यपि, शफर शफरो मत्स्यविशेषः, मसूरः
SR No.032130
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 03
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy