SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ लिङ्गानुशासनम् [ 27 पाठः, किसलयं पल्लवः, शयनीयं शय्या, सायं दिनावसानं, खेयं परिखा, इन्द्रियं रेतः, वयं मानं, पाय्यमपि । भयं प्रतिभयं कुब्जकप्रसूनेऽपि। शुष्मादीनां मान्तत्वात् किसलयादीनां यान्तत्वात् पुस्त्वे प्राप्ते पाठः। अथ रान्ताः २१ कलत्रं भार्या, द्वापर युगविशेषः, क्षेत्र केदारः, क्षेत्रकलत्रयोर्योनिमन्नामत्वेन स्त्रीत्वप्राप्तौ वचनं, सत्रं गृहं आच्छादनं, सदादानं, वन, दम्भ : साधनं यज्ञश्च ।। २० ।। शृङ गवेरमजिराभ्रपुष्करं, तीरमुत्तरमगारनागरे । स्फारमक्षरकुकुन्दरोदरप्रान्तराणि शिबिरं कलेवरम् ॥ २१ ॥ शृङ्गवेरमाकं, अजिरं प्राङ्गणे, वाते, विषये दर्दुरे तनौ। अभ्र मेघः नाकश्च, स्वाथिके के प्रभ्रकं गिरिजामलं, अर्थप्राधान्यात् शैलाभ्रादयोऽपि, पुष्करं पङ्कजव्योमपयःकरिकराग्रेषु, तोरं तट, त्रपुवाची तु तीरो बाहुलकात् पुसि, उत्तरं प्रतिवचनं, अगारं गृहं. नागरं मुस्तक: शुण्ठी च, स्फारं विपुलं, गुणवृत्तेस्त्वाश्रयलिङ्गता। अक्षरं वर्णः, मोक्षः, परब्रह्म च, कुकुन्दरं जघनकूपः, अर्थप्राधान्यात् ककुन्दररतावुके अपि, उदरं जठरव्याधियुद्धानि, जठरे त्रिलिङ्गोऽयमिति बुद्धिसागरः। प्रान्तरं विपिने दूरशून्यवर्त्मनि कोटरे च शिबिरं सैन्यं तन्निवेशश्च, कलेवरं शरीरम् ।। २१ ।। सिन्दूर - मण्डूर - कुटीर - चामर-क्रूराणि दूराररवैरचत्वरम् । औशीरपातालमुलूखलार्तवे, सत्वं च सान्त्वं दिवकिण्वयौतवम् ॥ २२ ॥ सिन्दूरं धातुविशेषः, अर्थप्राधान्यात् मसिवर्द्धनं, गन्धीरं नागसंभवमित्यपि, मण्डूरं लोहमलं, कटीरं कटी, चामरं प्रकीर्णकं, पुस्यपीति कश्चित् क्रूरं क्रौर्य, दूरं विप्रकृष्ट, अनयोगुणवृत्तेस्त्वाश्रयलिङ्गतैव । अररं कपाटं रणं च, वैरं विरोधः, चत्वरं चतुष्पथं, औशोरं शयनासने चामरं यष्टिश्च । अथ लान्तौ पातालं वडवानलः, उलूखलं गुग्गुलः, निर्यासनामत्वात् पुस्त्वे प्राप्ते पाठः, प्रार्तवं पुष्पं स्त्रीरजश्च, सत्वं व्यवसाये स्वभावे विलम्बिते चित्ते गुणे द्रव्यात्मभावयोः, चस्यानुक्तसमुच्चयार्थत्वात् तत्त्वं स्वरूपे वाद्यभेदे परमात्मनि च, प्लवं मुस्तः गन्धतृणं च, सान्त्वं साम दाक्षिण्यं च, दिवं दिवसः स्वर्गश्च, किण्वं सुराबीजं, यौतवं मानविशेषः ।। २२ ।। विश्वं वृशपलिशपिशकिल्बिषानुतर्षाषिषं मिषमचीषमजीषशीर्षे । पीयूष-साध्वसमहानससाध्वसानि, कासीसमत्सतरसं यवसं बिसं च ॥ २३ ॥ विश्वं जगत्, वृशं शृङ्गवेरं लशुनं मूलकं च, पलिशं यत्र स्थित्वा मृगादि व्यापाद्यते । अपिशं प्रार्द्रमांसं, बालवत्साया दुग्धं च । अथ षान्ताः किल्बिषं रोगः अपराधः विषं च, अनुतर्ष मद्यं अषिष आर्द्रमांसं, मिषं व्याजः, ऋचोषं ऋजीषं च पिष्टपचनभाजनं, शीर्ष शिरः, शीर्षान्तत्वात् कपिशीर्षमपि, पीयूषममृतं प्रत्यग्रप्रसव
SR No.032130
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 03
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy