SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ 6 ] श्रीसिद्धहेमचन्द्रशब्दानुशासने धूल्यादिः, पूगः क्रमुकः संघोऽपि, अयं क्लीबोऽपि इति कश्चित् । सृगो भिन्दिपालाख्यः शस्त्रविशेषोऽर्थप्राधान्याद् भिन्दि (द) पालोऽपि । मस्तुलुङ गो मस्तिष्कः कुडङ गो वृक्षगहनम्, कालिङ गः कालिङि गनी तत्फलं च, चिर्भट्यां वल्लिनामत्वादेव स्त्रीत्वम्, वल्लिनामत्वेन स्त्रीत्वे फलनामत्वेन क्लीबत्वे प्राप्ते वचनम् । तमङ गइन्द्रकोशः, मङगो धर्मो नौः शिरश्च ।। ७ ।। वेगसमुद्गावपाङ्गवगौघार्धा मञ्चसपुच्छपिच्छगच्छाः । वाजौजकिलिजपुञ्जमुजा अवटः पट्टहठप्रकोष्ठकोष्ठाः ॥ ८ ॥ वेगो रयः किंपाकफलं प्रवाहो मूत्रादिप्रवृत्तिश्च, समुद्गः संपुटः, अपाङ्गो नेत्रान्तस्तिलकश्च, वर्गः संघातः, अोघः समूहादिः, अर्को मूल्यं पूजाविशेषश्च, वेग-वर्ग-रङ गौघार्धाणामौणादिकगान्तानां समुद्गस्य च डान्तस्य ग्रहणम्, घनन्तत्वे तु सिद्धमेव । मञ्चो राजासनम्, पुच्छः पश्चाभागः, लाङ गूले तु पुनपुंसकः, पिच्छं, लाङ गूलम्, गच्छोऽभिमतसंख्यावसानम्, वाजः पिच्छम्, प्रोजो विषमसंख्या, किलिजः कटः, मुजः शरेषीका, अवटो रन्ध्रन्, पट्टः पेषणपाषाणः पीठं च, ललाटभूषायां बाहुलकत्वात् स्त्रीत्वे पट्टो हठः बलात्कारः वारिपर्णी च, प्रकोष्ठः कूर्परादधः, कोष्ठः कुक्षिगृहयोरन्तरालं आत्मोयश्च ।। ८॥ अङगुष्ठगण्डौ लगुडप्रगण्डकरण्डकूष्माण्डगुडाः शिखण्डः । वरण्डरुण्डौ च पिचण्डनाडीव्रणौ गुणभ्र रणमलक्तकुन्तौ ॥ ६ ॥ अङ गुष्ठोऽङ गुलिविशेषः, अथ डान्ता दश, गण्ड: पिटकः, लगुडो लोहमयं शस्त्रं, प्रगण्ड: कूर्परांसयोर्मध्यम्, करण्डा भाण्डविशेषः, कुष्माण्ड: कर्कारुः भ्र गाश्च, गुडो गोलकः, शिखण्डश्चूडा, वरण्डोऽन्तरावेदौ रुण्डः, कबन्धः, रुण्डान्तत्वाद् वारुण्ड: सेकपात्रम्, पिचण्ड उदरम् णान्तास्त्रयः, नाडोव्रणो रोगविशेषः, व्रणस्य पुनपुसकत्वेन तत्पुरुषेण परवल्लिङगताप्राप्तौ वचनन्, गुणः पट: भ्र गो गर्भिणी स्त्री शिशुश्च, गुणस्यांशुकनामत्वेन नपुसकत्वे भ्रूणस्य तु योनिमन्नामत्वेन स्त्रीत्वे प्राप्ते पाठः, अथ तान्ताः सप्त, अलक्तो यावकः, कुन्तः प्रासः, अर्थप्राधान्यात् शलपराचदीर्घायुधा अपि ।। ६ ।। पोतः पिष्टातः पृषतश्चोत्पातवातावर्थकपदौं । बुबुदगदमगदो मकरन्दो जनपदगन्धस्कन्धमगाधाः ॥ १० ॥ पोतः प्रवहणं शिशुश्च, पिष्टात पटवासकः, पृषता बिन्दवः, प्रायेण बहुवचनान्तोऽयम्, मृगवाचिनस्तु देहिनामत्वादेव पुंस्त्वम्, उत्पातः उपसर्गः, व्रातः समूहः । अथ थान्त:-'अर्थः प्रकारे विषये, चित्तकारणवस्तुषु, अभिधेयेऽपि शब्दानान्' । धननामत्वेन क्लीबत्वे प्राप्तेऽस्य पाठः। अथ दान्ताः षट् कपर्दो हरजटाबन्धः, वराटवाचिनस्तु तन्नामत्वादेव सिद्धं पुस्त्वम्, बुबुदः जलादिसंस्थानविशेषः, गदो व्याधिः
SR No.032130
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 03
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy