SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ 2 । श्रीसिद्धहेमचन्द्र शब्दानुशासने अन्तान्तं नाम पुलिङ्गम्, पर्यन्तोऽवसानम्, विष्टान्तः मरणम्. प्रत्यन्तस्य बाहुलकत्वान्नपुसकत्वमेव । इमन् प्रत्ययान्तं अल् प्रत्ययान्तं च नाम पुलिङ्गम् -इमन्प्रथिमा, म्रदिमा, द्रढिमा इत्यादि । नन्तत्वेनैव सिद्धे इमन् ग्रहणं 'पात्वात् त्वादिः' इति नपुसकबाधनार्थम्, यस्त्वौणादिकस्तस्याश्रयलिङ्गता, भरिमा पृथ्वी, वरिमा तपस्वी इत्यादि । अल, प्रभवः 'प्रभवस्तु पराक्रमे, मोक्षेऽपवर्ग: इत्यादि। तथा क्यन्तं श्तिवन्तं (च) नाम पुलिङ्गम्-किः अयं वृतिः वृतूङ धातुस्तदर्थश्च । शितव्-अयं पचतिः डुपची धातुस्तदर्थश्च । श्तिव्साहचर्यात् 'इकिश्तिव स्वरूपार्थे' [५-३-१३८] इति विहितस्यैव केर्ग्रहणम् । तथा न प्रत्ययान्तं नङप्रत्ययान्तं (च) नाम पुलिङ्गम्। 'स्वप्नः स्वापे प्रसुप्तस्य, विज्ञाने दर्शनेऽपि च' प्रश्न: पृच्छा, नङ विश्नो गमनम्, तथा घ प्रत्ययान्तं घा प्रत्ययान्तं च नाम पू लिङ्गम् । घ:, कर: 'करो वर्षोपले रश्मो, पारगो प्रत्यायशुण्डयोः ।' परिसरो मृत्यौ देवोपान्तप्रदेशयोः, उरश्छदः कवचं प्रच्छदश्चोतरपटः, छदस्य तु नपुंसकता वक्ष्यते इत्यादि । घान्तम्-पादः । पादो बुध्नांहितुर्यांशरश्मिप्रत्यन्तपर्वतादिषु, प्राप्लावः स्नानम्, भावः, 'भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु । क्रियालोलापदार्थेषु विभूतिबन्धजन्तुषु । अनुबन्धः प्रकृत्यादेरनुपयोगी। दासंज्ञकाद्धातोर्य: किः प्रत्ययो विहितस्तदन्तं नामपुलिङ्गम् । आदिः प्राथम्यम्, व्याधिः रोगः, उपाधिर्धर्मचिन्ता कैतवं कुटुम्बव्यावृतो विशेषणं च, उपधि: कपटम्, उपनिधिः न्यासः, प्रतिनिधिः प्रतिबिम्बम्, संधिः पुमान् सुरुङ्गादौ । परिधि: परिवेषः, अवधिस्त्ववधानादौ, प्रणिधि: प्रार्थनमवधानं चरश्च, समाधिः प्रतिसमाधानं, नियमो मौनं चित्तैकार्थ्यं च, विधिः कालः कल्पो ब्रह्मा विधिवाक्यं विधानं दैवं प्रकारश्च । वालधिः पुच्छम्, शब्दधिः कर्णः, जलधिः समुद्रः. अन्तद्धिर्व्यवधा, प्रधेस्तु नेमौ स्त्रीपुसत्वं रोगविशेषे स्त्रीत्वं, शिरोधेस्तु स्त्रीत्वम्, इषुधेस्तु स्त्रीपुसत्वं वक्ष्यते इत्यादि। भावे खः, भावेऽर्थे यः खो विहितस्तदन्तं नाम लिङम। प्राशितस्य भवनम् पाशितंभवो वर्तते, तृप्तिरित्यर्थः । भाव इति किम् ? अाशितो भवत्यनया आशितंभवा पञ्चपूली, अकर्तरि च कः स्यात्, भावे कर्तृवजिते च कारके यः कः प्रत्ययस्तदन्तं नाम पुलिङ्गम् । प्राखूनामुत्थानमा खूत्थः, विहन्यतेऽनेनास्मिन् वा विघ्न अन्तरायः इत्यादि । अकर्तरि चेति किम् ? जानातीति ज्ञा परिषद् ॥१॥ हस्तस्तनौष्ठनखदन्तकपोलगुल्फ, केशान्धुगुच्छदिनसतु पतद्ग्रहाणाम् । निर्यासनाकरसकण्ठकुठारकोष्ठ, हैमारिवर्षविषबोलरथाशनीनाम् ॥२॥ हस्तादीनां नाम जलध्यादीनां तु सभिदां सप्रभेदानामपि पुलिङ्ग भवति । हस्तनाम, पञ्चशाखः, करः, शयः, अयं शय्यायामपि यान्तत्वात् पुसि, हस्तस्य तु पुनपुसकत्वम्, स्तननाम स्तनः, पयोधरः, कुचः वक्षोज: इत्यादि । प्रोष्ठनाम अोष्ठः, अधरः, दन्तच्छदः इत्यादि । नखनाम, करज:, कररुहः, मदनाङ कुश: इत्यादि । नखः
SR No.032130
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 03
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy