________________
३९४ ]
बृहद्वृत्ति - लघुन्यास संवलिते
[ पाद. ४ सू० १०९ ] हविः, अत्रेकारस्य वृद्धी कृतायां स्थानिवद्भावादवर्णवर्णस्य ( ७-४-६८) इति लोपः प्राप्तो न भवति । वर्णेन विधिः । उर:केण । उर : पेण: । उरु केण । उर पेण । अत्र सकारादेशानां विसर्जनीयजिह्वामूलीयोपध्मानीयानां स्थानिवद्भावप्रतिषेधादलचटतवर्गशसान्तरे इति णत्वप्रतिषेधो न भवति । व्यूढोरस्केन महोरस्केनेत्यत्र तु सकारे कृते स्वाश्रयः प्रतिषेधः प्रवर्तते । अप्रधानवर्णाश्रयो विधिः । प्रदीव्य प्रसीव्य । अत्र स्तादीत्यन्यपदार्थस्याशित: प्राधान्यात् स्तोरप्राधान्यमिति स्थानिवद्भावप्रतिषेधो भवति । स्थानिवर्णाश्रयकार्य प्रतिषेधाच्चादेशवर्णाश्रयाणि स्थान्यनुबन्धाश्रयाणि च कार्याणि भवन्त्येव । आदेश वर्णाश्रयाणि । सर्वेषाम् । अत्र सामादेशे कृते सकाराश्रयमेत्वं भवति । स्थान्यनुबन्धाश्रयाणि । प्रभिद्य, निरुध्य, प्रणीय, प्रलूय । अत्र क्त्वो यवादेशे कृते स्थानिवद्भावेन विङतीति गुणप्रतिषेधो भवति । अनुबन्धा ह्यसन्त एव गुणाभावादिक कार्यं कुर्वन्ति । अथ कथमग्रहीदित्यत्रेटो दीर्घत्वे स्थानिवद्भावादिट ईतीति सिचो लोपो भवति, वर्णविधिह्यषः ? उच्यते, - नायं वर्णविधिः, विशिष्टं ह्येष समुदायमवर्णमाश्रयते इटं नाम । अथ शोभना दृषदोऽस्य सुदृषदित्यत्र जस्लुपः स्थानिवद्भावेनासन्तत्वात् 'अभ्वादेरत्वसः सौ ' (१-४-९०) इति दीर्घः कस्मान्न भवति । 'लुप्यय्वृल्लेनत्' (७-४-११२ ) इति प्रतिषेधात् । भ्वादिप्रतिषेधेन श्रूयमाणासन्तपरिग्रहाच्च न भवति । सुदृषदानित्यत्र तु इतिकरणसामर्थ्यादसन्तलक्षणो विन्न भवति । १०९ ।
न्या० स० स्थानी० – अवर्णविधावित्यस्यार्थमाह-न चेत् तानीत्यादि वर्णाश्रयाणि कार्याणि त्रिविधानि विद्यन्ते, आदेशवर्णाश्रयाणि अनुबन्धवर्णाश्रयाणि स्थानिवर्णाश्रयाणि च तत्र स्थान्याश्रयाणां कार्याणामतिदेशप्रस्तावेन स्थानिवर्णाश्रयाणामेवावर्णविधाविति प्रतिषेधो न्याय्यो, न त्वादेशाश्रयाणामनुबन्धाश्रयाणां चेति मनसिकृत्य स्थानिवर्णाश्रयाणीत्युक्तम् तेन सर्वेषां प्रभिद्येत्यादौ सामादेशे क्त्वो यवादेशे च कृते स्थानिवद्भावात् सकाराश्रयमेत्वम्, अक्ङिति इति गुणप्रतिषेधश्च भवत्येवाकार्यशब्दं पुनः पुनः प्रयुञ्जानः कार्यातिदेशतामभ्याचष्टे, एवं च यत्कार्यं वर्णमुच्चार्य विधीयते तदूवर्णाश्रयमस्तु यत्तु धात्वादिसमुदायोच्चारेण न तद्वर्णाश्रयं वर्णस्य तत्र शब्देनासंसर्गात् ।
ननु अग्निर्माणवकइतिवदिवग्रहणमन्तरेणापीवार्थानुमानं भविष्यति किमिवग्रहणेन ? इत्याशङ्क्याह — इवग्रहणं स्वाश्रयार्थमिति स्वस्य स्थानिस्वरूपस्य हन् इत्वादेराश्रय आश्रयणं तदर्थम, अन्यथा इवग्रहणाभावे संज्ञासंज्ञिसंबन्धो विज्ञायेत, आदेश इति संज्ञी स्थानीति च संज्ञा ततो यत्रादेशः स्थानी च स्यात्तत्र स्थानीत्यादेशस्य संज्ञा विज्ञायेतेतीवग्रहणम् ।
स्वाश्रयः प्रतिषेध इति ' प्रत्यये ' २-३ - ६ इत्यनेन यः कृतः सकारस्तदाश्रयो णत्वनिषेधो, न तु मूलभूत सकाराश्रयः तस्य वर्णत्वात् वर्णाश्रये च स्थानित्वनिषेधात् ।