SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ ३९० ] बृहद्वृत्ति-लघुन्याससंबलिते [पाद. ४ सू० १०१ ] ३, है ३, देवदत्त आगच्छ, आगच्छ है ३ देवदत्त, आगच्छ देवदत्त है ३॥ हेहैष्वित्वधारणस्य विषयार्थम् । एषामिति स्थामिनिर्देशार्थम् । बहुवचनं ह इ हे हए है इति लाक्षणिकयोरपि परिग्रहार्थम्, एवकारोऽन्यस्य प्लुतस्य व्युदासार्थः । अत एव चैवकारात् यत्रतत्रस्थयोः प्लुतो विज्ञायते ।१००। न्या० स० हेहै.-एषामितीति हेहायामेवेत्येव कृते पूर्वसूत्रेण सामान्येन प्लुतप्राप्ती योतकानां चेत् प्लुतः स्यात् तदा हेहायामेवेति नियमार्थ स्यात्तेन हे ३ आगच्छ हे ३ देवदत्त इत्यादि सिद्धं, पूर्व हि देवदत्त ३ इत्यादौ चरितार्थ भोःप्रभृतिषु तु न स्यात् ।। यजतत्रस्थयोरिति यदि पुनरन्तभूतानामेव हेहायां प्लुतः स्यात्तदाऽपरस्यान्त्यभूतस्यासंभवात् प्राप्तिरेव नास्ति किमेवकारेण ? अस्त्रीशूद्रे प्रत्यभिवादे भोगोत्रनाम्नो वा ॥ ७. ४. १०१ ॥ ___ यदभिवाद्यमानो गुरुः कुशलानयोगेनाशिषा वा युक्त वाक्यं प्रयुक्त स प्रत्यभिवादः । तस्मिन्न स्त्रीशूद्रविषये वर्तमानस्य वाक्यस्य स्वरेष्वन्त्यः स्वरो भोःशब्दस्य गोत्रस्य नाम्नो वामन्त्र्यस्य संबन्धी प्लुतो वा भवति । अभिवादये देवदत्तोऽहं भोः ३, अभिवादये देवदत्तोऽहं भोः, आयुष्मानेधि भोः ३, आयुष्मानेधि भोः, आयुष्मानेधि देवदत्त भो: ३। आयुष्यानेधि देवदत्त भोः । गोत्रे, अभिवादये गार्योऽहं भोः, कुशल्यसि गार्ग्य ३, कुशल्यसि गार्य । आयुष्मानेधि गाय॑ ३, आयुष्मानेधि गाय॑ । राजन्यविशोरपि गोत्रत्वमेव । अभिवादयेऽहमिन्द्रवर्मा भोः, आयुष्मानेधीन्द्रवर्म ३ न्, इन्द्रवर्मन् । अभिवादये इन्द्रपालितोहं भोः, आयुष्मानेधीन्द्रपालित ३ । इन्द्रपालित । नाम, अभिवादये देव दत्तोऽहं भोः, आयुष्मानेधि देवदत्त ३, देवदत्त । स्त्रीशूद्रवर्जनं किम् ? अभिवादये गायेह भोः, आयुष्मती भव गागि, अभिवादये तुषजकोऽहं भोः, आयुष्यानेधि कुशल्यसि तुषजक । प्रत्यभिवादे इति किम् ? अभिवादये स्थाल्यहं भोः, आयुष्मानेघि स्थालि ३। अभिवादयिताह खरकुटीवन्न ममेकारान्ता संज्ञा का तर्हि दण्डिवन्नकारान्ता । पुनगुरुराह आयुष्मानेधि स्थालि ३ न स पुनराह ईकारान्तव मम संज्ञा, स प्रत्युच्यते, असूयकस्त्वमसि जाल्म, न त्वं प्रत्यभिवादमर्हसि । भिद्यस्व वृषल स्थालि। भोगोत्रनाम्न इति किम् ? देवदत्त कुशल्यसि, देवदत्तायुष्मानेधि, पुनर्वाग्रहणमुत्तरत्र वाधिकारनिवृत्त्यर्थम् ।१०१॥ ___ न्या० स० अस्त्री० देवदत्त कुशल्यसीत्यादि अत्र एधि असीति क्रियापदेन आमन्त्र्य इति द्वयङ्गविकलता व्यावृत्तेरिति न वाच्यं, यतोऽत्राव्यये त्वमित्यस्य अर्थस्य वाचके इत्यामन्त्र्यता, यद्वा वाक्यैकदेशो भव्य इत्याद्यध्याहारार्थः ।
SR No.032130
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 03
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy