SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ | पाद. ४. सू. ९३-९५ ] श्रीसिद्धहेमचन्द्र शब्दानुशासने सप्तमोध्यायः [ ३८७ ह रथेन याति उपाध्यायं पदाति गमयति, स्वयं ह ओदनं भुङ्क्ते ३ उपाध्यायं सक्तून् पाययति, स्वयं ह ओदनं भुङ्क्ते उपाध्यायं सक्तून् पाययति । आशिषि, सिद्धान्तमध्येषीष्ठाः ३ व्याकरणं च तात, सिद्धान्तमध्येषीष्ठा व्याकरणं च तात, पुत्रांश्च लप्सीष्ठाः ३ धनं च तात, पुत्रांश्च लप्सीष्ठाः धनं च तात । प्रेषे त्वं ह पूर्वं ग्रामं गच्छ ३ चैत्रो दक्षिणम्, त्वं ह पूर्वं ग्रामं गच्छ चैत्रो दक्षिणम् । कटं च कुरु ३ ग्रामं च गच्छ ३, कटं च कुरु ग्रामं च गच्छ । त्यादेरित्येव । भवता खलु कटः कर्तव्यः ग्रामश्च गन्तव्यः । साकाङ्क्षस्येत्येव । दीर्घं ते आयुरस्तु ।९२। चितीवार्थे: ।। ७. ४. ९३ ॥ इवार्थे उपमायां वर्तमाने चित् इत्यस्मिन्निपाते प्रयुज्यमाने वाक्यस्य स्वरेष्वन्त्यः स्वरः प्लुतो वा भवति । अग्निचिद्भाया३त् अग्निचि । यात् । राजा चिदभूया३त्, राजा चिद्भूयात् । अग्निरिव राजेवेत्यर्थः । चितीति किम् ? अग्निरिव भायात् । चितीति रूपसत्ताश्रयणादप्रयोगे न भवति । अग्निर्माणवको भायात् । इवार्थ इति किम् ? कर्णवेष्टकांश्चित्कारय । कर्णवेष्टकानेवेत्यर्थः । कथंचिदाहुः कृच्छ्रेणाहुरित्यर्थः । ६३ । प्रतिश्रवणनिगृह्यानुयोगे ॥ ७. ४. ९४ ॥ प्रतिश्रवणं परोक्तस्याभ्युपगमः स्वयं प्रतिज्ञानं श्रवणाभिमुख्यं च निगृह्य स्वमतात्प्रच्याव्यानुयोगो निग्रहपदस्याविष्करणं निगृह्यानुयोगः । उपालम्भ इति यावत् । एतयोर्वर्तमानस्य वाक्यस्य खरेष्वन्त्यस्वरः प्लुतो वा भवति । अभ्युपगमे - गां मे देहि भोः, हन्त ते ददामि ३, हन्त ते ददामि । स्वयं प्रतिज्ञाने,-नित्यः शब्दो भवितुमर्हति ३, नित्यः शब्दो भवितुमर्हति । श्रवणाभिमुख्ये, भो देवदत्त किं मार्ष ३, कि मार्ष । मार्षेति श्रवणाभिमुख्यद्योतको निपातः । निगृह्यानुयोगे, अद्य श्राद्धमित्यात्थ ३ । अद्य श्राद्धमित्यात्थ । अद्य श्राद्धेति वादी युक्त्या स्वमतात्प्रच्याव्यैवमुपलभ्यते |४| विचारे पूर्वस्य ।। ७. ४. ९५ ।। किमिदं स्यात् किमिदमिति निरूपणं तस्मिन् विषये संशय्यमानस्य यत्पूर्वं तस्य विचारः संशय इति यावत् । स्वरेष्वन्त्यः स्वरः प्लुतो वा भवति । हि ३ रज्जुर्नु, अहिनु रज्जुर्नु, स्थाणुर्नु३ पुरुषो नु, स्थाणु पुरुषा
SR No.032130
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 03
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy