________________
३७० ]
बृहद्वृत्ति- लघुन्याससंवलिते
[ पाद. ३ सू० ४०-४२ | ऋजीयान्, कृष्णिमा, कृष्णयति, कृष्णिष्ठः, कृष्णीयान् । अनृचीयान् स्वचीयान् । ऋत इति किम् ? सर्वस्य मा भूत् । ३९।
C
न्या० स० पृथु० – अनुचीयानित्यादि न विद्यन्ते ऋचो ऽस्य नञ् बहोः ' ७-३-१३९ इत्यप्, शोभना ऋग् यस्य स्वृच्, आभ्यामप्यगुणाङ्गत्वेऽपि 'विन्मतोः ' ७-४-३२ इति ज्ञापकस्य सर्वोद्विष्टत्वादीयस् ।
बहोर्णोष्ठे भूय् ॥ ७. ४. ४० ॥
बहुशब्दस्य णीष्ठयोः परयोर्भूय इत्ययमादेशो भवति, भूभावापवादः । भूययति, भूयिष्ठः । बहोराख्यानं भूयनम् । णौ केचिद्विकल्पमाहुः । भूययति, भूयमम् । पक्षे बहयति, बहनम् । बहोर्णो भाविति कश्चित् । भावयति ॥४०॥ न्या॰ स॰ बहो० – बहोराख्यानमिति णिचोऽनटश्चैकमेवेदं वाक्यं, यद् वा बहुमाचष्टे णिच् भूय्यत इत्यनट् ।
भूलुकः चैवर्णस्य ।। ७. ४. ४१ ।।
बहुशब्दस्य ईयसाविमनि च परे भू इत्ययमादेशो भवति अनयोश्चेवर्णस्य लुग्भवति । भूयान् भूयांसो, भूयांसः, भूमा । भू ऊ इति ऊकार प्रश्लेषादवादेशो न भवति । इवर्णस्येति किम् ? सर्वस्य माभूत् । ४१ ।
न्या० स० भूलू ० – ' प्रियस्थिर' ७-४-३८ इत्यतः सूत्रादिमणिइष्ठई यसवश्चत्वारोऽनुवर्त्तन्ते तेषु च णीष्ठयोः पूर्वसूत्राघ्रातत्वात् पारिशेषादिमनीयसोरेवायं विधिरित्याहईयसाविमनि चेति । ऊकार प्रश्लेषादिति न च भू इत्यादेशविधानादत्र न भविष्यति इति यतो भूमेत्यत्र पदत्वादपदे उक्तः 'अस्वयंभुवेषु' ७-४-७० इति अबू न भविष्यतीति, अत्र भू आदेशस्य चरितार्थत्वात्, भूयानित्यादावव् स्यादिति भूश्चासावूश्चेति प्रश्लेषव्याख्यानम् । स्थूलदूरयुवहस्व क्षिप्रक्षुद्रस्यान्तस्थादेर्गुणश्च नामिनः ।। ७. ४.४२ ॥
स्थूलादीनां यथासंभव मिमनि णीष्ठेयसुषु च परेष्वन्तस्थादेरवयवस्य लग् नामिनश्च गुणो भवति । स्थूल - स्थवयति, स्थविष्ठः, स्थवीयान् । दूरदवयति, दविष्ठः, दवीयान् । युवन् - यवयति, यविष्ठः, यवीयान् । ह्रस्व - हसिम:, ह्रसयति, इसिष्ठः, ह्रसीयान् । क्षिप्र-क्षेपिमा, क्षेपयति, क्षेपिष्ठः, क्षेपीयान् । क्षुद्र - क्षोदिमा, क्षोदयति, क्षोदिष्ठः, क्षोदीयान् । ह्रस्वादिभ्यः पृथ्वादित्वादिमन् । उत्तरेणान्त्यस्वरस्यानेनार्थादन्तस्थाया लोपे सिद्धे अन्तस्थादेरिति किमर्थम् ? येन नाप्राप्तिन्यायेनान्त्यस्वरादिलोपं बाधित्वानेनान्तस्थाया एव लोपो मा भूदित्येवमर्थम् । नामिन इति किम् ? ह्रस्वक्षिप्रक्षुद्राणां सकारपकारदकाराणां