SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ [ पाद ४. सू. २१-२३ ] श्री सिद्ध हेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः [ ३६३ प्राब्राहणस्यैये ।। ७. ४. २१ ॥ वात्वादेरिति वर्तते प्रशब्दात्परस्य वाहणशब्दस्य एये णिति तद्धिते परे स्वरेष्वादेः स्वरस्व वृद्धिर्भवति आदेः पूर्वस्य तु प्रशब्दस्य वा भवति । प्रवाहयतीति प्रवाहणः प्रवाहणस्यापत्यं प्रवाहणेयः प्रावाहणेयः, शुभ्रादित्वादेयण् । अत्राप्युत्तरपदवृद्धेः पूर्वोक्तमेव प्रयाजनम्, तेन प्रवाहणेयी भार्या यस्य प्रवाहणेय भार्य इति पुंवद्भावप्रतिषेधो भवति । २१ । एयस्य ।। ७. ४. २२ ॥ एयप्रत्ययान्तावयवात्प्रशब्दात्परस्य वाहणशब्दस्य ञ्णिति तद्धिते परे स्वरेष्वादेः : स्वरस्य वृद्धिर्भवति आदेस्तु प्रशब्दस्य वा भवति । प्रवाहेणयस्यापत्यं युवा प्रवाहणेयिः प्रावाहणेयिः । प्रवाहणेयस्येदं संघादि तस्य भावो वा प्रवाहणेयकम् । प्रावाहणेयकम् । बाह्यतद्धितनिमित्ता वृद्धिरेवाश्रयेण विकल्पेनाशक्या बाधितुमिति सूत्रारम्भः । २२। न्या० स० एय॰—प्रवाहणेयिरिति अत्र ब्राह्मणत्वात् ' अब्राह्मणात् ' ६-१-१४१ इत्यनेन इनो न लुप् । बाह्यतद्धितेति – बाह्यस्तद्धित एयव्यतिरिक्तस्तन्निमित्ता वृद्धिः 'वृद्धिः स्वर' ६-४-१ इत्यनेन नित्यं प्राप्ता एयाश्रयेण विकल्पेन 'प्रावाहणस्य' ६-४-२१ इति विहितेनेति योजना । नञः क्षेत्रज्ञेश्वरकुशलचपलनिपुणशुचेः ॥ ७. ४. २३ ॥ नञः परेषां क्षेत्रज्ञ, ईश्वर, कुशल, चपल, निपुण, शुचि इत्येतेषां प्रकृत्यवयवानां णिति तद्धिते परे स्वरेष्वादेः स्वरस्य वृद्धिर्भवति आदेस्तु नञो वा । अक्षेत्रज्ञस्येदं अक्षेत्रज्ञम् आक्षेत्रज्ञम् । अक्षेत्रज्ञस्य भावः कर्म वा अक्षैत्रइयम् आक्षैत्रश्यम्, राजादित्वात् टयण् । एवमनैश्वरम्, आनेश्वरम्, अनैश्वर्यम्, आनैश्वर्यम् । अकुशलस्येदम् अकौशलम् आकौशलम्, एवमचापलम्, आचापलम्, अनैपुणम् । आनैपुणम् । न शुचिरशुचिस्तस्येदम् अशौचम्, आशौचम्, न विद्यते शुचिरस्येति वा अशुचिस्तस्य भावः कर्म वा अशौचम्, आशौचम् । क्षेत्रज्ञकुशलचपलनिपुणानां न पूर्वाणामपि युवादिपाठादणमिच्छन्त्येके । आयथातथ्यमिति समासात्प्रत्ययः । अयाथातथ्यमिति प्रत्ययान्तेन समासः । एबम् आयथापुर्यम् अयाथापुर्यम् यथा आचतुर्यम् अचातुर्यम् इति । यथातथा यथापुरा इत्यखण्डमव्ययं वा ' नाम नाम्ना ' - ( ३-१-१८) इति वा समासो ' यथाऽथा' ( ३-१-४१ ) इति अव्ययीभावो वा
SR No.032130
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 03
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy