SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ ३३० ] . बृहृवृत्ति-लघुन्याससंवलिते [पा० ३. सू० ८८-९२ ] गणत्वादप्रत्ययेन भविष्यति ॥ अक्षशब्देनेन्द्रियपर्यायेण सिद्धे प्रत्यादिभ्यः परस्याक्षिशब्दस्याव्ययीभावे प्रयोगो मा भूदिति वचनम् ।८७।। अनः ॥ ७. ३.८८॥ अन्नन्तादव्ययीभावादसमासान्तो भवति । उपराजम्, । उपतक्षम्, अध्यात्मम्, प्रत्यात्मम् ।८८। नपुंसकादा ॥ ७. ३. ८९ ॥ अन्नन्तं यन्नपुसकं तदन्तादव्ययीभावादत्समासान्तो वा भवति । उपचर्मम्, उपचर्म, प्रतिकर्मम् प्रतिकर्म, प्रतिसाम, प्रतिसामम्, अनुलोम, अनुलोमम्, प्रतिलोम, प्रतिलोमम्, । पूर्वेण नित्ये प्राप्ते विकल्पः ।८९। गिरिनदीपौर्णमास्याग्रहायण्यपञ्चमवादा ॥ ७. ३. ९० ॥ गिरि नदी पौर्णमासी आग्रहायणी इत्येतच्छब्दान्तात्पश्चमरहिता ये वास्तदन्ताच्चाव्ययीभावात्समासादत्समामान्तो भवति वा। गिरेरन्तः अन्तगिरम अन्तगिरि, गिरेः समीपमुपगिरम्, उपगिरि, एवमुपनदम् उपनदि, उपपौर्णमासम् उपपौर्णमासि, उपाग्रहायणम्, उपाग्रहायणि, अपञ्चमवर्य, उपचम् उपस्रुक, अधिस्रजम्, अधिस्रक्, उपैडविडम्, उपैडविड्, प्रतिमरुतम्, प्रतिमरुत्, उपदृषदम्, उपदृषद्, उपसमिधम्, उपसमित्, उपककुभम्, उपककुब् । ९० । न्या० स० गिरिनदी०-उपैडविडमिति इडविडोऽपत्यं स्त्री 'राष्ट्रभत्रिय' ६-१-११४ इत्यञ् 'तरत्रणः' ६-१-१२३ इति लुप, अनेनात् 'विषये 'जातिश्च णि' ३-२-५१ इति पुंवद्भावेऽनः प्रत्यावृत्तिः ततो वगन्तित्वाभावादत् न भवति, पुंवद्भाव एव चाऽस्य फलम। संख्याया नदीगोदावरीभ्याम् ॥ ७. ३. ९१ ॥ संख्यावाचिनः परौ यौ नदीगोदावरीशब्दो तदन्तादव्ययीभावसमासादतसमासान्तो भवति । पञ्च नद्यः पञ्चनदम्, सप्तनदम्, द्विगोदावरम्, त्रिगोदावरम् । संख्याया इति किम् ? उपनदि । अव्ययीभावादित्येव ? एकनदी। इह नदीग्रहणं मित्यार्थम् । ९१ । शरदादेः ॥ ७. ३. ९२॥ शरदाद्यन्तादव्ययीभावसमासादत्समासान्तो भवति । शरदः समीपमुपशरदम्, प्रतिशरदम्, उपत्यदम्, प्रतित्यदम् ।
SR No.032130
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 03
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy