SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ ३१८ ] बृहद्वृत्ति- लघुन्याससंवलिते [ पादः ३ सू० ४५-४८ तुर्थात्स्वाद्ध्वं लुग्भवति । अनुकम्पितो बृहस्पतिदत्तो बृहस्पतिशर्मा वा बृह स्पतियः बृहस्पतिकः, बृहस्पतिलः, एवं प्रजापतियः, प्रजापतिकः, प्रजापतिलः । अकृतसन्धेरित्येव पूर्ववत् प्रजापत्याशीर्दत्तोऽनुकम्पितः प्रजापतिक इति यथा स्यात् प्रजापत्यिक इति मा भूत् । कचिद्ग्रहणादिह न भवति । अनुकम्पितः उपेन्द्रदत्तः, उपडः, उपकः, उपियः उपिलः ॥४४ | पूर्वपदस्य वा ॥ ७ ३. ४५ ॥ अनुकम्पायां विहिते स्वरादौ प्रत्यये परे पूर्वपदस्य लुग् वा भवति अनुकम्पितो देवदत्तः, दत्तियः, दत्तिकः, दत्तिलः । वावचनाद्यथाप्राप्तम् । देवियः, देविकः, देविलः 'द्वितीयात्स्वरादूर्ध्वम् ( ७-३-४१ ) इति लुक् ।४५ । 2 न्या० स० पूर्व० – दत्तिय इति ' ते लुग् वा ' ३-२-१०८ इति पूर्व लुकि बहुस्वरत्वाभावादियादिर्न स्यादिति वचनम् । ह्रस्वे ॥ ७. ३. ४६ ॥ A दीर्घप्रतियोगि ह्रस्वम्, हस्वेऽर्थे वर्तमानाच्छब्दरूपाद्यथायोगं कबादयः प्रत्यया भवन्ति । हस्वः पटः पटकः, शाटक:, हस्वं पचति पचतकि, हस्वकालयोगात्क्रिया हस्वेत्युच्यते । हस्वाः सर्वे सर्वके, विश्वर्के, उच्चकैः, नीचकैः, तूष्णीकाम् । संज्ञायामपि हस्वत्वयोगात्कप् स हस्व इत्येव सिद्धः । वंशकः, वेणुकः, नडकः (नरक), ललकः, वरक: ।४६ | A न्या० स० हस्वे० – दीर्घप्रतियोगि हस्वमिति लोहादिकं हवं च महच्च संभवतीति महत्प्रतियोगिनि ' अल्पे ' ३-२ - १३६ इति न सिध्यति । सिद्ध इति ये हि संज्ञायां कप् प्रत्ययं विदधति तेऽपि स्वत्वोधिकायां संज्ञायामिति व्याख्यान्तीति संज्ञायामध्येनैव कपू सिद्ध इत्यर्थः । A कुटी शुण्डाद्रः ॥ ७. ३. ४७ ॥ कुटीशुण्डा इत्येताभ्यां ह्रस्वेऽर्थे वर्तमानाभ्यां रः प्रत्ययो भवति, कपोऽपवादः । ह्रस्वा कुटी कुटीरः, शुण्डारः । केचित्तु कुटीस्थाने कुर्दों पठन्ति । कुदीरः । ४७ । शम्या रुरौ ॥ ७ ३. ४८ ॥ शमीशब्दात् ह्रस्वेऽर्थे वर्तमानात् रुर इत्येतौ प्रत्ययौ भवतः । ह्रस्वा शमी शमीरुः, शमीरः । ४८ ।
SR No.032130
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 03
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy