________________
पाद. ३. सू. ३२-३४ ] श्रीसिद्धहेमचन्द्र शब्दानुशासने सप्तमोऽध्यायः [ ३१३ कपोऽपवादः । कुत्सितमल्पमज्ञातं वा उच्चैः उच्चकैः, नीचैस्, नीचकैः, धिक् धकित्, हिरुक् हिरकुद, पृथक् पृथकद् । चकारोऽन्वाचये तेन सर्वस्याव्ययस्याक् भवति । ककारान्तस्य त्वक् दान्तादेशश्च । योगविभागस्त्यादेर्दादेशाभावार्यः । शक्लृट् शक्तौ । यङ् लुप् दिव्, अशाशक् । अकि, अशाशकक् । ३१॥
तूष्णीकाम् ॥ ७. ३. ३२ ॥
तूष्णीकामिति तूष्णीमो मकारात्पूर्वं का इत्यागमो निपात्यते प्रानित्यात्, अकोऽपवादः । कुत्सितमल्पमज्ञातं वा तूष्णीं तूष्णीकाम् आस्ते । तूष्णीकां तिष्ठति |३२|
कुत्सितात्पाज्ञाते ॥ ७. ३. ३३ ॥
कुत्सितं निन्दितम्, अल्पं महत्प्रतियोगि, अज्ञातं प्रकृत्युपात्तधर्मव्यतिरेकेण केनचित् स्वत्वादिना धर्मेणानिश्चितम् सर्वथा त्वज्ञाते प्रयोगायोगात् । कुत्सि - ताल्पाज्ञातोपाधिकेऽर्थे वर्तमानाद्यथायोगं कबादयः प्रत्यया भवन्ति ।
कुत्सितोऽल्पोऽज्ञातो वाश्वः अश्वकः, गर्दभकः, घृतकम्, तैलकम्, पचतकि, भिन्धकि, सर्वके, विश्वके, उच्चकैः, नीचकैः, तूष्णीकाम् । कथं कुत्सितक:, अल्पकः, अज्ञातकः । कुत्सादीनां भेदोपपत्तेः कुत्सितादिभ्योऽपि कुत्सितादौ प्रत्ययो भवति प्रकृष्टतर इत्यादी प्रकर्षभेदे तरवादिवत् ।
राधकः, पूर्णकः, शूद्रक इत्यादी सत्यामपि संज्ञायां कुत्सायोगात् कुत्सित इत्येव कप् । व्याकरणकेन नाम त्वं गर्वितः याज्ञिक्यकेन नाम त्वं विकत्थसे इत्यादी अवक्षेपणमपि कुत्सितमेव । नह्यकुत्सितेनावक्षिप्यते । ३३ ।
न्या० स० कुत्सि ०—–कथमिति कुत्सितादेः प्रकृत्यैव गतार्थत्वात् प्रत्ययस्यार्थाभावान्न तदर्थ - द्योती प्रत्ययोऽत्र युक्त इत्याशङ्का । कुत्सायोगादिति तेनान्यैरिव संज्ञायां कप् न विधातव्यः, यथा अज्ञाते कुत्सिते चैव, संज्ञायामनुकम्पने । तद्युक्तनीतावप्यल्पे, वाच्ये ह्रस्वे च कः स्मृतः ॥ १॥
अवक्षेपणमपीति व्याकरणं कुत्सनं वैयाकरणस्तु कुत्सित इति व्याकरणात् कथं प्रत्यय इत्याशङ्का ।
अनुकम्पातद्युक्तनीत्योः ॥ ७. ३. ३४ ॥
अनुकम्पा कारुण्येन परस्यानुग्रहः । तया अनुकम्पया युक्ता नीतिस्ततिः, नीतिः सामादिप्रयोगः, तत्रानुकम्पायां सामोपप्रदाने एव न भेददust तयो: अनुकम्पाया अयोगात् । अनुकम्पायां तद्युक्तायां नीतो भगम्य