________________
[ पाद. २. सू. २] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोध्यायः [२५७ ड्यां शबल्यो गावोऽस्य सन्तीत्येवं कार्यम् । यदा तु शबलशब्दो गवि वर्त्तते तदा गौरादित्वाभावादापि सति ‘तद्धिताककोपान्य' ३-२-५४ इत्यनेन आख्याद्वारेण पुंवत्त्वनिषेधात् शबलागुरित्येव स्यात् । शंखादककुदावत्तौ द्वे अपि अश्वस्यापलक्षणे ।
- समानायां वृत्ताविति अत्र एषामस्येति च उभयत्रापि षष्ठ्याः सद्भावात् समाना वृत्तिः । समानवृत्तावित्यादि पूर्वार्द्धं यत्सरूप इति पदं तदुत्तरार्द्धऽपि योज्यं, ततोऽयमर्थः-न केवलं सरूपो मत्वर्थीयो मत्वर्थीयात् समानवृत्ती न भवति, मत्वर्थीयोऽपोत्यत्रापिशब्दाद् विरूपोऽपि इति । विषमवृत्तौ सरूपो मत्वर्थीयो न भवतीति तु कारिकया न संजगृहे अथवा पूर्वार्धात् सरूप इति नाधिक्रियते किंतु मत्वर्थीयोऽपि नेष्यत इति सामान्येन भणनात् सरूपो विरूपश्च नेष्यत इत्येव व्याख्यायते, अपिशब्दस्तु शौषिकापेक्षया समुच्चये व्याख्येयः।
असंज्ञाभूतादिति द्विविधः कर्मधारयः संज्ञाभूतोऽसंज्ञाभूतश्च, तत्र संज्ञाभूतो यः समुदायप्रसिद्धया प्रवर्तते यथा गौरखरादयः, असंज्ञाभूतो योऽवयवार्थयोगेन प्रवर्तते, न पृथक्समुदायप्रसिद्धया यथा वीरपुरुषादिः ।
कर्मधारयादित्यादि उपलक्षणमिदं यत्कर्मधारयान्मत्वर्थीयो न भवतीति । यावता नञ् तत्पुरुषादपि बहुब्रोहिणैव भाव्यं, यथा अघोषा इति । अत्र हि न घोषोऽघोषः, सोऽस्यास्ति इति कृते बहुव्रीहिरेव न मतुः, यत्र त्वर्थविशेषो मत्वर्थीयेनाभिधीयते तत्र नतत्पुरुषादप्यसौ भवति यथानखन्ति चक्राणीति । अत्र हि नञ्तत्पुरुषेण चक्रेष्वरकाभावः सामान्येनोच्यते, मत्वर्थीयेन त्वत्यन्तं मूलतोऽप्यरकाभाव यावत् , तथा यद्यप्यसंज्ञाभूतात् कर्मधारयान्मत्वर्थीयो न भवतीत्युक्तं तथापि प्रायेण दृश्यते यथा विसकिसलयछेदपाथेयवन्त इति, अत्र हि बिसकिसलयच्छेदाच्च ते पाथेयं चेति कर्मधारये सति मतुरिति वल्लभेन निश्चिक्ये ।
कथमिति अत्राप्यसंज्ञाभूतः कर्मधारयोऽन्तीत्यभिप्रायः । आ यात् ॥ ७. २. २ ॥
गणादिभ्यो यः (७-२-५३) रूपात्प्रशस्ताहतात् (७-२-५४) इत्या एतस्माद्य प्रत्ययात् याः प्रकृतयो निर्देश्यन्ते ताभ्यो मतुः प्रत्ययो भवति तदस्यास्ति तदस्मिन्नस्तीत्यस्मिन्विषये । कुमारीमान्, व्रीहिमान्, दण्डवान्, अशीर्षवान्, वातवान्, चूडावान्, सिध्मवान्, गोमान्, गुणवान् । आ यादित्यभिविधावाङ्। अपवादैबर्बाधा माभूदिति वचनम्, तेन यथाभिधानमुत्तरत्र मतुरपि भवति ।२।
न्या० स० आ यात्-अत्र कुमारीमानित्यादि-प्रयोगेषु यथाक्रमं ' नावादेरिकः' ७-२-३ 'व्रोह्यादिभ्यस्तो' ७-२-५ 'अतोऽनेकस्वरात्' ७-२-६, 'अशिरसोऽशीर्षश्च' ७-२-७ 'बलवातदन्त०' ७-२-१९, 'प्राण्यङ्गादातो लः' ७-२-२०, 'सिध्मादिक्षुद्रजन्तु" 'गोः, ७-२-५०, 'गुणादिभ्यो यः' ७-२-५३ इत्यादिसूत्रविहितप्रत्ययविषये पक्षे आ यादित्यनेन मतुर्विधीयते ।
यथाभिधानमिति 'कालाजटा' ७-२-२३ इत्यादिभिः कैश्चित्सूत्रैरर्थविशेषे प्रत्ययोऽभिहितः, स च मतुना न गम्यत इति तदर्थप्रतिपादनाय तत्सूत्रविहित एव प्रत्ययो भवति, न तु मतुरित्याशयः।